SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुज्जय कल्पवृ० ॥ २६७ ॥ 157557255 52525252525252 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जितशत्रुः सुमित्रश्च सोदरौ रुचिरोत्सवम् । धर्म्मघोषगुरोः पार्श्वे ललतुः संयमं सुखम् ॥ २७ ॥ अजितः क्षोणिभुग् भ्रात्रा समं राज्यं नयाध्वना । जनताः पालयामास जीवरक्षापरः सदा ॥ २८ ॥ जितशत्रुः सुमित्रच तीव्रं तपो निरन्तरम् । कुर्बाणौ कुरुतः स्मा-डलं विहारं पृथिवीतले ॥ २९ ॥ जितशत्रुर्यतिः कुर्वं स्तपस्तीव्रं निरन्तरम् । ईशाने ताविषे देवो बभूवाऽमलविग्रहः ॥ ३० ॥ * यतः - " उसभपिआ नागेसु सेसाणं सत्त हुति ईसाणे । अट्ठ य सणकुमारे माहिंदे अट्ठ बोधव्वा ॥ १ ॥ * अट्टहं जणणीओ तित्थयराणं हुंति सिद्धिओ । अट्ठ य सणकुमारे माहिंदे अट्ठ बोधव्वा ॥ २ ॥ "फ अजितभ्रातुरादेशं प्राप्य सगरसोदरः । साधयामास भूयिष्ठ-देशान् वैरिनिकृन्तनात् ॥ ३१ ॥ वसन्तेऽजितभूपालः सगरभ्रातृसंयुतः । पुष्पैः फलैश्विरं क्रीडां चक्रतुः सरसीष्वपि ॥ ३२ ॥ तदैको हरिणोऽकस्मात् पीनदेहोऽद्रिशृङ्गवत् । पतितो मरणं प्राप्तस्तं चापश्यन्महीपतिः ॥ ३३ ॥ ततो दध्यौ नृपोऽसार- संसारो विद्यते खलु । यतो विनश्वरं विश्वं दृश्यते ससुरासुरम् ॥ ३४ ॥ * यतः — “ स्वैरिणो वैरिणो लोके विषया भवचत्वरे । छलाद् हरन्ति पुण्यैक चैतन्यं हि जडात्मनाम् ||३५ ॥ * पुत्र पितृ- कलत्रादि- पाशैर्बद्धो भवे भवे । पक्षिवत् स्वेच्छया धर्मे रन्तुं न लभते जनः ॥ ३६ ॥ * यत्तुच्छसुखलोभेन पुण्यं स्वं द्रावयन्ति हि । तेषां पीयूषमंहीणां क्षालनाय भवत्यपि ॥ ३७ ॥ For Private and Personal Use Only 25255255752525525525:55 ॥ २६७ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy