SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुष्जय कल्पवृ० ॥ २१७॥ $525252525252525 www.kobatirth.org * ये चात्र पक्षिणः सन्ति क्षुद्रा अन्येऽपि जन्तवः । हिंसका अपि सेत्स्यन्ति ते भवैस्त्रिभिरुत्तमाः ॥ ८ ॥ * अभव्याः पापिनो जीवा नामुं पश्यन्ति पर्वतम् । लभ्यते चापि राज्यादि नेदं तीर्थं हि लभ्यते ॥ ९ ॥ * मुक्तेषु तीर्थनाथेषु गते ज्ञाने महीतले । लोकानां तारकः सोऽयं श्रवणात् कीर्त्तनादपि ॥ १० ॥ * दुःषमाख्येऽपि समये गते ज्ञानेऽपि केवले । धर्मे विसंस्थूले जाते तीर्थमेतञ्जगद्धितम् ॥ ११ ॥ * अत्रार्हतां कृता पूजा स्तुतिपुष्पाक्षतादिभिः । आसंसारं कृतं पापं प्राणिनां हि व्यपोहति ॥ १२ ॥ * यतः — पूजाऽर्हतो गुरोर्भक्तिः श्रीशत्रुञ्जयसेवनम् । चतुर्विधस्य सङ्घस्य सङ्गमः सुकृतैर्भवेत् ॥ १३ ॥ * येनात्र गुरवो वस्त्र-भक्तदानादिभिर्मुदा । सन्मानिता लभिष्यन्ते ते स्वर्गशिवसम्पदः ॥ १४ ॥ * यतः - वस्त्रान्नजलदानेन गुरोः शत्रुञ्जये गिरौ । इहापि परलोकेsपि जनाः सुखजुषोऽभवन् ॥ १५ ॥ * सङ्घपादरजो यस्य शिरः स्पृशति देहिनः । तीर्थसेवाफलं तस्य पवित्रस्य भवत्यहो १ ॥ १६ ॥ * शत्रुञ्जयादितीर्थेषु प्रासादान् प्रतिमाश्च ये । कारयन्ति हि तत्पुण्यं ज्ञानिनो एव जानते ॥ १७ ॥ * कारयन्ति जिनानां ये तृणावासानपि स्फुटम् । अखण्डितविमानानि लभन्ते ते त्रिविष्टपे ॥ १८ ॥ श्रुत्वेति गणभृन्मुखाजनास्तत्र जिनान्तिके । जगुस्तीर्थमिदं वर्ष वर्ष प्रति नमस्यते ॥ १९ ॥ तदा तत्र महीशान - पुराधीशो धनो नृपः । भूरिसङ्घयुतो नन्तुं तीर्थदेवान् समागमत् ॥ २० ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 129525252552552552555 ॥ २९७ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy