SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥१८८॥ 5252TS252525252STISTSZ! शत्रुञ्जये गिरौ राजा-दनीवृक्षोऽस्ति योऽधुना । स एव शाश्वोऽनेक-देवदानवसेवितः ॥४३॥ वैताल-शाकिनी-भूत-दुष्टदेवादिदोपहत् । तत्प्रभावो युगादीशा-दावाभ्यां बहुशः श्रुतः ॥४४॥ तत्स्तम्बमृत्तिकाशाखा-पत्राद्यं विद्यतेऽत्र च । तच्चूर्णसेवनात् सर्वे भवन्ति नीरुजो जनाः ॥ ४५ ॥ चक्रिणोक्तौ च तौ व्योम चारिणौ चक्रिणो बलम् । नीरोगं चक्रतू राजा-दनीमृत्पत्रयोगतः ॥४६॥ नीरोगं स्वबलं राजादनीपत्राम्बुयोगतः । ज्ञात्वा चक्री जगौ शत्रुञ्जयोऽयं विद्यते वरः॥४७॥ यत्र राजादनी पत्र-पुष्पादिरोगहन्नृणाम् । अधस्तस्यास्तरोर्मा असङ्ख्याश्च शिवं ययुः ॥४८॥ मया दिगविजयप्रान्ते भूरिसङ्घयुतेन हि । यात्रां करिष्यते शत्रुञ्जये सद्गतिहेतवे ॥ ४९ ॥ करिष्यते यदा यात्रा मया शत्रुजयाचले । तदा द्वितीयवारं तु भोक्तव्यं नान्यथा पुनः ॥ ५० ॥ भरतः साधयन् पृथ्वी तीर्थे प्रभाससज्ञिके । दिव्यबाणाद् वशीचक्रे प्रभासेशं क्षणादपि ॥५१॥ ददौ चूडामणिं वक्षोमणिं हारं मनोहरम् । कटकानि कटीसूत्रं भरताय प्रभासराट् ।। ५२ ॥ तद्भस्ते स्वर्णकुम्भस्थं नीरं दृष्ट्वा जगौ नृपः । प्रभासेशाऽत्र किं तिष्ठेद् गोपितं जीववत्वया ? ॥ ५३ ॥ अथ प्रभासराट् प्राह सुराष्ट्रमण्डले वरे । शत्रुञ्जयाभिधं तीर्थ विद्यते शिवशर्मदम् ॥ ५४॥ * अनन्तमहिमापूर्ण-मनन्तसुकृताऽऽस्पदम् । नानारत्नौषधिकुण्ड-रसकूपीमहद्धिमत् ॥ ५५॥5 25252SS2SESSES255ASSS ॥१८८॥ - For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy