SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ० ॥ १५८ ॥ %2525525252 52525252 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततिं गुलितं सर्वं स्निग्धाहारमतः परम् । गृही वाक्यहकं नैव ह्येवमादादभिग्रहम् ॥ २४ ॥ यतः - जह चयः चक्कवट्टी पवित्थरं तत्तिअं मुहुत्तेण । न चयइ तहा अहन्नो दुबुद्धी खप्परं दमओ ॥२५॥ तीव्रं तपो वितन्वानः सम्प्राप्ताविचिचित क्रमात् । बोधयन् भविनो भूरीन् सिद्धाद्रौ यतिरीयिवान् ॥ २६ ॥ वितन्वानः शुभं भावं मोदकप्रियसंयतः । तत्राद्रौ केवलज्ञानं प्राप्य सिद्धिं समीयिवान् ॥ २७ ॥ * यतः - संसारबीजभूतानां कर्म्मणां जरणादिह । निर्जरा सा स्मृता द्वेधा सकामा कामवर्जिता ॥ २८ ॥ * ज्ञेया सकामा यमिना -मकामा त्वन्यदेहिनाम् । कर्मणां फलवत्पाको यदुपायात् स्वतोऽपि च ॥ २९ ॥ * सदोषमपि दीप्तेन सुवर्ण वह्निना यथा । तपोऽग्निना तप्यमानस्तथा जीवो विशुद्धयति ॥ ३० ॥ * अनशनमौनोदर्य वृत्तेः संक्षेपणं तथा । रसत्यागस्तनुक्लेशो लीनतेति बहिस्तपः ॥ ३१ ॥ * प्रायश्चित्तं वैयावृत्यं स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभं ध्यानं पोढेत्याभ्यन्तरं तपः ॥ ३२ ॥ * दीप्यमाने तपोव बाह्ये चाभ्यन्तरेऽपि च । यमी जरति कर्माणि दुर्जराण्यपि तत्क्षणात् ॥ ३३ ॥ इत्यादि-रुचिरां धर्म-देशनां मुनिसुव्रतः । वितीर्य भविनो भूरीन् गमयामास निर्वृतिम् ॥ ३४ ॥ तत्रस्थस्य प्रभोर्लक्ष त्रयं वाचंयमा वराः । सम्प्राप्य केवलज्ञानं मुक्तिपुर्यां समीययुः ॥ ३५ ॥ For Private and Personal Use Only 255252525250 ।। १५८ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy