SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुज्जय कल्पवृ० ॥ १२७ ॥ www.kobatirth.org एवं श्रीसुविधिः सार्वः प्रबोध्य भविनो बहून् । अन्यत्र विजहाराऽथ भव्याङ्गिबोधहेतवे ॥ २५ ॥ ॥ श्री शीतलजिनस्य शत्रुञ्जयसमागमनस्वरूपम् ॥ भद्दिलापुरे वर्यो, भूपो दृढरथोऽजनि । तस्य नन्दाभिधा राज्ञी बभूवाऽनघशीलभाम् ॥ १ ॥ चतुर्दशमहास्वप्न-सूचितो नन्दया सुतः । असावि माघमासस्य, कृष्णस्य द्वादशीतिथौ ॥ २ ॥ शक्रकृतजन्मोत्सव- ज्ञानप्राप्ति यावद्वाच्यम् । " शीतलतीर्थकृत् कुर्वन् विहारं वसुधातले । सिद्धाद्रौ समवासार्थी - दनेकसाधुसंयुतः ॥ ३ ॥ तत्राऽऽगतेष्वसङ्ख्येषु, यात्रार्थं भविषु ध्रुवम् । धर्मोपदेशनां चक्रे, शीतलस्तीर्थनायकः ॥ ४ ॥ परिग्रहप्रमाणं तु, यश्चकार धनादिषु । कालनैगमवद् याति, मुक्तिपुर्यां स मानवः ॥ ५ ॥ कुन्तपुर्यां वणिक कालो, यद् यल्लाति ऋयाणकम् । द्वित्रिचतुर्गुणलाभै-विक्रीणीते स्म तत्तदा ॥ ६ ॥ भाग्योदये भवेत् पुंसां पुत्रपौत्रादिकं धनम् । अभाग्यस्योदये दुःखं जायते च भवे भवे ॥ ७ ॥ यथा यथा गृहेऽभ्येति, लक्ष्मीस्तस्य निरन्तरम् । तथा तथा भवेत्तृष्णा वर्द्धमानाऽन्तरिक्षवत् ॥ ८ ॥ * यतः- तृष्णाखानिरगाधेयं, दुष्पूरा केन पूर्यते ? | या महद्भिरपि क्षिप्तैः पूरणैर्वद्धतेतराम् ॥ ९ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 525252552552552528 ॥ १२७ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy