SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुजय कल्पवृ० ॥ १२५॥ 32SESSESEISESTSESTISSESSE ॥ श्री सुविधिजिनस्य समागमनस्वरूपम् ॥ काकन्यां पुरि सुग्रीव-भूपस्य न्यायशालिनः । मार्गस्यासितपञ्चम्यां रामाऽसूत सुतं प्रिया ॥१॥ इन्द्रजन्मोत्सवकरणादि ज्ञानप्राप्तिं यावद्वाच्यम् ।। बोधयन् भविनो जीवान्-सुविधिजिननायकः । सिद्धाद्रौ समवासार्षीत् भूरिसाधुसमन्वितः ॥२॥ तत्र द्वादशसंसत्सू-पविष्टासु जिनेश्वरः । धर्मोपदेशनां दातु-मारेभे शिवशर्मणे ॥३॥ अन्धीभूताऽबला वृद्धा वैद्योक्तौषधयोगतः । दिव्यनेत्रा यथा जाता तथा भव्यो गुरूक्तितः ॥ ४॥ मीनाह्वनगरे भीम-वैद्यस्य सूनवस्त्रयः । काम-राम-मुकुन्दाह्वा बभूवुः श्रीप्रियाभवाः ॥५॥ त्रयोपि पाठिता विद्याः पित्रा पुत्रा धनार्जनात् । धन-चन्द्र-बनेभ्यानां नन्दिनीः परिणायिताः ॥६॥ श्वश्वा समं स्नुषाः सर्वाः कुर्वन्त्यः कलहं सदा । क्षणमेकं न विश्राम लेभिरे कारुलोकवत् ॥ ७॥ कुर्वत्सु तेषु कलहं वृद्धाऽथैका नितम्बिनी । प्रष्टुकामौषधं वैद्यो-पान्तेऽभ्येत्य जगावदः ॥८॥ अन्धत्वस्फेटकं दृष्टयो-रौषधं रुचिरं मम । वैद्यराइ यच्छ कृत्वा त्वं प्रसादं मयि साम्प्रतम् ॥९॥ पुनः पुनस्तयेत्युक्ते रुष्टो वैद्यो जगाविति । अस्याऽर्कस्य क्षिप क्षीरं दृष्टयोरन्धत्वभिद् ध्रुवम् ॥१०॥ तया तथा कृतेऽर्कस्य क्षीरक्षेपविधानतः । दिव्यनेत्राऽभवद् दृष्टि वैद्यप्रोक्तविधेस्तदा ॥११॥ S25252SPSESGASSZISTISSE ॥१२५॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy