SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir शत्रुञ्जय कल्पवृ० ॥११८॥ 1125SZTISZSZEST52SSS हसन्तो जगदुः स्तेना अस्मभ्यं बस्तु देहि भो! । इहैव दास्यते वस्तु तुभ्यमस्माभिरञ्जसा ॥१९॥ श्रेष्ठथवक कोऽत्र साक्ष्यस्ति यत् साक्षी पूरयिष्यति । चौराः प्रोचुरयं साक्षी मार्जारोऽरण्यवासकः ॥२०॥ ततो वस्त्वखिलं त्यक्त्वा गणयित्वा स नैगमः । तस्करेभ्यो वितीर्याथ नमश्चक्रे स धीरवाग् ॥ २१ ॥ हसन्तस्तस्करा वस्तु गृहीत्वा श्रीपुरे ययुः । वणिक छन्नं चलंस्तत्र नगरे समुपेयिवान् ॥ २२॥ मिलित्वा भूपतेर्धर्मः प्राहेति त्वं प्रजापतिः । अशरणस्य शरणं शिष्टसङ्ग्रहकारकः ॥२३॥ दुष्टस्य दमको दीन-दुःस्थानाथादिपालकः । दाता भोक्ता विवेकी त्वं चिरं नन्द चिरं जय ॥२४॥ राजाऽभाणीद् वणिक ! कि ते कार्य सम्प्रति विद्यते । धर्म आचष्ट मे वस्तु गृहीतं तस्करैः पथि ।। २५ ।। ततो भूपतिराकार्य मन्त्रीशान प्रत्यवग् दृढम् । अस्य वस्तु गृहीतं यैस्तान् विलोक्याऽर्म्यतां च तत् ।। २६ ॥ ततस्ते मन्त्रिणोऽभ्येत्य प्रोचुः क्व सन्ति तस्कराः ? | धर्मश्चौरगृहं तेभ्यो दर्शयामास तत्क्षणात् ॥ २७ ॥ ततस्तत्र स्थिताश्चौगः प्रोक्ता मन्त्रीश्वरैरिति । युष्माभिरस्य यद्वस्तु गृहीतं तत् समर्प्यताम् ॥ २८॥ स्तेनास्ते जगदुः स्तन्यं वयं कुर्मः कदापि न । यद्यस्माभिगृहीतं चेद् वस्तु साक्ष्यस्ति कोऽत्र च ॥ २९ ॥ प्रोचुर्मन्त्रीश्वराः धर्म साक्षिणं त्वमिहानय । ततो धर्मोऽऽनयत्तत्र मार्जार कृष्णदेहभम् ॥३०॥ तदा ते तस्कराः प्रोचुः सोऽभूद् रक्ततनुच्छविः । तेनायं वक्ति कूटं तु ग्रहीतुं मे धनं ध्रुवम् ॥३१॥ ESSESESSESZSZSZSZSZSTS wwwcomooooooooooooooomneen ॥११८॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy