________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुज्जय कल्पवृ०
75 PSSTSELLSCSISESTATTI
ततइच्युत्वा नरभवं अप्य भीमः सुरः स च । कल्याणनगरे यातः क्षिप्त्वा कर्माष्टकं क्रमात् ॥१०॥ इत्यादि धर्ममाकर्ण्य बहवो भव्यमानवाः । श्रेयःपुरी मलश्चक्रुः सिद्धतीर्थे शिवप्रदे ॥११॥ श्रीपुरे मण्डनश्रेष्ठी हस्ताभ्यां वस्तु तोलयन् । अर्जयामास यद् द्रव्यं तदर्द्ध व्ययति वृषे ॥ १२ ॥ हस्ताभ्यां जिननाथस्य पूजां कुर्वन् सुभावतः । शत्रुञ्जये ययौ नन्तुं नाभिभूपतिनन्दनम् ॥१३ ॥ पूजां श्री ऋषभेशस्य कुर्वन् प्राप्याऽव्ययां विदम् । मुक्तिमत्र गिरेः शृङ्गे ययौ स च तमाक्षयात् ॥१४॥ चन्द्राह्वनगरे चन्द्र-वणिग् वस्तु स्वमौलिना । आनीयानीय विक्रीय निर्वाहं स वणिग् व्यधात् ॥१५॥ मस्तकेन प्रणम्याऽऽदिजिनं शत्रुञ्जयाचले । क्षीणकर्मा ययौ चन्द्रः कल्याणनगरी क्रमात् ॥१६॥ वीराहनगरे वीर-श्रेष्ठिराड् बुद्धि विक्रमात् । अर्जयित्वा धनं शत्रुञ्जये यात्रां व्यधान्मुदा ॥१७॥ बुद्धथा श्रीजिननाथार्चा भङ्गिभिर्बहुभिः सदा । कुर्वन् शत्रुञ्जये प्राप पञ्चमं ज्ञानमन्यदा ॥ १८ ॥ क्रमाद् भूरिजनान् जैनधर्मे प्रबोधयन् सदा । शत्रुञ्जये ययौ मोक्षं भूरितपस्विसंयुतः ॥१९॥ इत्यादि बहवो भव्या अभिनन्दनसार्वतः । धर्म श्रुत्वा ययुर्मुक्ति सिद्धपर्वतमस्तके ॥ २० ॥ तारापुरे हरो भार-वाहो भूरिभरं वहन् । एकादिविंशतिप्रान्तान् मणान् स्कन्धेऽवहत् परम् ॥ २१ ॥ दिनं प्रति द्रमान् पञ्च-सप्ताष्टौ वाऽर्जयन् सदा । द्रममेकं वृषे पश्च गृहे कोशे द्रमद्वयम् ॥ २२ ॥
SasRESESHPRESSELSEE
११०॥
For Private and Personal Use Only