SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥७८॥ ISSES SESESSSSSSSSS * अत्याचारमनाचार-मतिनिन्दामतिस्तुतिम् । अतिशीचमशौचं च पडेते जडबुद्धयः ॥ ६४ ॥ ॥ D* तेजस्विनां मनस्तुङ्ग नभस्वदन्तदशास्वपि । गच्छतस्तरणेरस्तं स्फुटमूर्ध्वमरीचयः ॥६५॥ ॥ जल्पितं सुरसुन्दर्याः श्रुत्वा भीमो जगावदः । भो पत्नि ! यत्वया प्रोक्तं तद्वयं रोचते मम ॥६६॥ . यदि ताभ्यां गृहिणीभ्यामहं पशुः करिष्यते । तदा किं क्रियते तत्र मया त्वया च तत्र हि ॥६७ ॥ सुरसुन्दर्यवक कान्त ! मां लात्वा स्वगृहे व्रज । सर्व ते सुकरं तत्र करिष्येऽहं सुखग्रहम् ॥ ६८ ॥ * यतः-'महिष विषाणे मशकः शशकः शैले पिपीलिका पङ्के । सच्चरित्रे गुणिनि जने पिशुनः कुपितोऽपि किं कुरुते ?' ॥ ६९॥ आकर्येति प्रियावाक्यमायतौ हितकारकम् । भीमो दध्यौ गुणैः श्लाघ्या ममेयं गेहिनी किल ॥ ७० ॥ * यतः-" ऋतुर्वसन्तः प्रियवादिनी प्रिया, प्रभुर्गुणज्ञो गुणगौरव क्रिया । सुतो विनीतः समये घनाघनः, करोति नो कस्य मुदास्पदं मनः ? ॥ ७१॥" गृहिणीप्रेरितो भीमः सप्रियः स्वपुरं प्रति । चलन् ततो निजे ग्रामे समागात् मुदिताशयः ।। ७२ ।। द्वाभ्यां सहचरीभ्यां स सप्रिय आगतस्तदा । निरीक्ष्य स्वागतं चक्रे तस्यास्तस्य च सादरम् ।। ७३ ।। आलोचि पूर्वपत्नीभ्यां स्थिता रहसि तत्क्षणम् । आवाभ्यां विहितः कीर एष पूर्व पतिः स्वयम् ॥ ७४ ॥ SPSSESSES25252525SESAS25 ॥ ७८॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy