SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ व्यवहारविषयं तमाहववहारे वि तह च्चिय, जह गहियं तं तहा भणंतस्स।जह वा लब्भइ लोए, तहाभणंतस्स नायव्वो॥ व्याख्या-व्यवहारः ' क्रय-विक्रयादिरूपः, सभादिषु उक्ति-प्रत्युक्तिरूपो वा । तथा च वक्तारो भवन्ति "अत्रार्थे युष्माभिः सहाऽस्माकं राजकुले व्यवहार" इति । ततो व्यवहारेऽपि, न केवलं धर्मे, इत्यपिशब्दार्थः । धर्मवदत्रापि वचनाविसंवादो ज्ञातव्य इति योगः । कथम् ? इत्याह-'यथा गृहीतं येन प्रकारेण वाणिजकादेः सकाशाद क्रीतं यद्वस्त्विति गम्यते, तत्तथैव भणतो' अभिदधत इति । 'यथा वा' इति वाशब्दः पक्षान्तरसंसूचनार्थः, तेन | यथा वा येन प्रकारेण नियतमून्यादिना 'लभ्यते' प्राप्यते मञ्जिष्ठादिद्रव्यं लोके ' वणिग्वर्गे तथा भणत इति । उपलक्षणं चैतद्, राजसभादिध्वपि नित्यमात्मानं व्यवस्थापयितुमारम्य, सुवर्णलचं वा लभ्यमुक्त्वा, [ग्रन्थानं ८९.] चौर्य मया न कृतमिति प्रतिज्ञाय तथैव निर्वाहयत इति । अन्यथा तु विपर्ययः, पुरुषान्तरवचनेन व्यभिचारादिति गाथार्थः ॥ ३ ॥ एवं सर्वश्राद्धसाधारणं वचनाविसंवादमभिधाय, मथ वैद्यादेः श्रावकस्य विशेषविषयमपि तमाहविजस्स वि वाहिनियाण,-किरियद्विइमवितहं भणंतस्स। रणो विहु अवराहं, जहाफुडं वागरिंतस्स। ___ व्याख्या-'वैद्यस्यापि ' भिषबोऽपि 'व्याधिनिदानक्रियास्थितिं ' रोगस्योत्थानबीजं प्रतीकारमर्यादा च 'अवि For Private and Personal Use Only
SR No.020700
Book TitleShatsthanak Prakaranam
Original Sutra AuthorN/A
AuthorJineshvarsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy