SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथम पदस्थानक प्रकरणम् स्थानम् ॥९॥ 'इमौ' एतौ रागद्वेषौ । यथा चैवं तथा प्रदीपे प्रकाशोष्णस्पर्शाविकाधारावपि, नान्यथा प्रकृतशङ्कानिरासः । ननु सूक्ष्मसंपरायगुणस्थानवतः सूक्ष्मलोभलक्षणरागसद्भावेऽपि द्वेषाभावात् कथमेकाधारता? इत्यत माह-'लोके' स्थूलकषायवाति सामान्यजने । ततः कथं लोकोत्तरगुणस्थानवर्तिना तेन व्यभिचारः । एवं च कथमेकभावेऽन्याभावादीषदपि निर्दोषता पाखण्डिमण्डलाभिमतदेवानाम् ? कार्याभिव्यङ्गयस्थूलतरकषायकलङ्कितत्वात्तेषाम् । इति गाथार्थः ॥ १३ ॥ एवमनयोस्तुन्यविषयाधारतया साम्यं समर्थ्य तुल्यफलत्वमुपदर्शयंस्तद्वतो देवत्वाभावमाह| इह लोए निंदखिसं, लहंति परलोए नरयदुक्खाई। रागद्दोसेहितो, तेसु ठिओ कह णु देवो त्ति ॥१४॥ ___व्याख्या-'इह लोके' भत्र जन्मनि 'निंदाखिसं' इति तत्समक्षं गर्हणं निन्दा, लोकसमक्षं तु जात्यायुद्धट्टन खिसा, ततः समाहारः । 'लभन्ते' प्राप्नुवन्ति, 'परलोके' जन्मान्तरे 'नरकदुःखानि' दुर्गतियातनाः, 'रागद्वेषाभ्यां' हेतुभूताभ्यां तद्वन्तः प्राणिन इत्यर्थः । अथैतदुभयदोषवतो देवत्वाभावमुपसंहरबाह-यत एवं ततः 'तयोः' रागद्वेषयोः 'स्थितः' वर्तमानः कथं नु देव इति पूर्ववत् । रागाद्याध्मातमानसत्वादसर्वज्ञत्वादव्यभिचारिशास्त्राप्रणेतृत्वात्तस्य नैव देवत्वम् । इति गाथार्थः ॥१४॥ अथ मोहस्य स्वरूपफले दर्शयन् रागद्वेषयोरपि तन्मूलत्वमाहमोहो पुण अन्नाणं, सयलाणत्थाण कारणं तं तु।रागद्दोसावि फुडं, तप्पभवा निच्छओ एस ॥१५॥ For Private and Personal Use Only
SR No.020700
Book TitleShatsthanak Prakaranam
Original Sutra AuthorN/A
AuthorJineshvarsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy