SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् प्रथम स्थानम् ॥४॥ अथ प्रकरणावतारायाह–अत्र व्याख्येति । 'अत्र' अस्मिन् गाथाद्वये विशिष्टा-प्रसंक्षिप्तनिःशेषाभिधेयविषयत्वेन प्रधाना पाख्या-मणितियाख्या। अथवा 'अत्र' अस्मिन् गाथाभिधेये स्थानषद्के विविधा-चतुष्टा(ष्टया)दिभेदाभिधानेन नानाप्रकारा पाख्या व्याख्या क्रियत इत्यध्याहारः । 'इति' प्रकरणावतारावान्तरवाक्यार्थः ।। साम्प्रतं व्रतपरिकर्मणो भेदोद्देशपुरस्सरं तत्प्रथमभेदं श्रवणं प्रतिपादयन् यादृशाद्गुरोर्यादृशेन च यत् कर्तव्यं तदाहकयवयपरिकम्मत्तं, चउठिवहं सुणइ ताव पढमं तु।गुरुणो गीयत्थाओ, विणएण अणुग्गहपरो य॥३॥ व्याख्या--'कृतव्रतपरिकर्मत्वं' पूर्वोक्तशद्धार्थ तत् 'चतुर्विधं' चतुष्प्रकारम् । तदुक्तम्- यवयपरिकम्मत्तं, चउन्विहं सुणइ जाणइ तहेव । इच्छह गिण्डद तत्थ य, सुणेइ जं जह य तं तुच्छ ॥१॥" 'शृणोत्येव' आकर्ण यत्येव, तावदित्युपक्रमे । 'प्रथम' पूर्व ज्ञानेच्छाग्रहणेभ्यः । तुरेवकारार्थो योजित एव । 'गुरोः' ज्ञानादिगुणगणोपेततया सच्छास्त्रोपदेशकतया च गौरवाईस्याचार्यादेः सकाशात् । तदुक्तम्-“धर्मे तीर्थकृतां यथैव गदितं तत्त्वं तथैवानिशं, यो जानाति करोति चाऽऽदिशति चाऽसङ्गः स दिव्यो गुरुः । तस्योपास्तिमपास्तकल्मषभरां भक्त्या गृहस्थैदृढं, कुर्वद्भिः परमोपदेशमिषतः किं किं फलं १ कृतव्रतपरिकर्मत्वं, चतुर्विधं शृणोति जानाति तथैव । इच्छति गृहाति तत्र च, शृणोति यद् यथा च तद् वक्ष्ये ॥ For Private and Personal Use Only
SR No.020700
Book TitleShatsthanak Prakaranam
Original Sutra AuthorN/A
AuthorJineshvarsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy