SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ श्रीसर्वज्ञाय नमः ॥ ॥ किञ्चित्प्रस्तावना ॥ विद्वज्जनतमत्कारि विधिमार्गप्रतिपादनपरं सद्देवगुरुधर्मविषयप्रतिबद्धं षष्ठ्यधिकगाथाशतमानं प्रकरणमिदं निस्तन्द्रया धिया भाण्डागारिकनेमिचन्द्रेण विरचितमस्ति । यतः - "एवं भंडारि अनेमिचंदर आओ कह बिगाहाओ। विहिमग्गरया भवा परंतु जाणंतु जंतु सिवं ॥ १ ॥ " यद्यपि ग्रन्थकारेण स्वसत्तासमयो न प्रकटीकृतः तथापि जिनदत्तसूरिचरितानुसारेण विक्रमीयत्रयोदशशताब्त्रां समभूत् इत्यनुमीयते । असौ नेमिचन्द्रः अणहिलपुरपतन निवासिसज्जनभाण्डागारिकततया श्रीजिनेश्वरसूरिजनकतया प्रसिद्धोऽस्ति । अयं सदेवगुरुधर्मतच जिज्ञासायै नगरग्रामाकरपतनस्थित नानागच्छातुच्छश्रमणानीक्षमाणः तत्कालोचित क्रियाकलाप निष्णात जिनपत्तिसूरिवर्यस्य पार्श्वे सम्यक्त्वपूर्वक देश विरतिं जग्राह अस्योपरि महोपाध्यायश्रीगुणरत्नगणिना " परोपकाराय सतां विभूतयः " एतद्वाक्यानुसारेण १५०१ वर्षे वृत्तिर्विहिता, यदुक्तं प्रशस्त्याम्- शशिगगन बाणभूमिप्रमिते वर्षे कृता विवृत्तिरिह । आचन्द्रार्क नन्दतु विषुधवरैर्वाच्यमानेयम् ॥ १ ॥ अयं गुणरत्नगणिः कस्मिन् देशे कतमं भूमण्डलं मण्डयामास के के ग्रन्था विनिर्मिताः तदस्माभिर्न निर्णीयते, क्वापि तत्सम्बन्धिलेखादर्शनात् । अस्मिन् प्रकरणे कुदेव- कुगुरु-कुधर्मसेवनया जीवा अनन्तशो भवभ्रमणं कुर्वन्ति । सुदेव-गुरुसुधर्माराधनेन बहवः प्राणिनोऽजरामरपदं प्राप्नुवन्ति इत्यादि युक्त्या सुप्रतिपाथ सद्देव-गुरु- धर्ममेव तत्वमिति निरूपि For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy