________________
Shri Mahavir Jain Aradhana Kendra
षष्ठिज्ञतक
॥ ७१ ॥
४
१२
www.kobatirth.org
व्याख्या- 'जह अइत्यादि ' यथेत्युपमायां 'अइकुलमिति' देशीपदत्वात् अतिपंकिलप्रदेशे कर्दमबहुलस्थाने 'खुत्तंति ' मग्नं शकटं रथं कर्षन्ति निष्काशयन्ति केचित् सर्वं वाक्यं सावधारणमिति केचिदेव विशिष्टजातिलक्षणबळादिगुणयुताधौरेय धवलाः प्रधानतृषभाः नतु सर्वेऽपि गल्यादयोऽपि । तथेत्युपनये मिथ्यात्वात्पूर्वभणितस्वरूपात् कुटुम्बं परिकरं इह जगति विरळा अल्पे एव केचित्कदाग्रहदोषरहिता लघुकर्माण आसन्न सिद्धिकाः कर्षन्ति समुद्धरन्ति न तु तदितरे । अयमभिप्रायः । यथा-बहुलकर्द्दमे मग्नं शकटं धौरेया निष्काशयन्ति । तथा विरला पुण्यवन्तो मिथ्यात्वात् स्वकुटुम्बमुद्धरन्ति सुगुरूपदेशश्रावणादिना स्वयं च मिध्यात्वासमक्ष सत्ताप्रदर्शनेनेति गाथार्थः ॥ ७९ ॥ ननु किमर्थमेवमुक्तं यद्विरलाः केऽपि कुटुम्बं मिथ्यात्वात् कर्षन्तीति यावता सर्वजगत्प्रसिद्धं भगवन्तं वीतरागं दृष्ट्वा स्वयमात्मानं सर्वे मिथ्यात्वादुद्धरिष्यन्तीत्याशंक्याह -
मूलम- जह वद्दलेण सूरं महियलपयडं पि नेय पिच्छंति ।
मिच्छत्तस्स य उदए तहेव न नियंति जिणदेवं ॥ ८० ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- 'जह वेति ' यथेति दृष्टान्ते वारां दलं वाईलं तेन वाईलेनाभ्रेण करणभूतेन सूरं सूर्य सहस्रकरं महीतलप्रकटमपि पृथ्वीवलयप्रसिद्धमपि नैव प्रेक्षन्ते पश्यन्ति लोका इति गम्यते । निविडवार्दलेन हि घटपटादिप्रकाशनेन पृथ्वीप्रकटमपि सूर्यबिम्बं न दृश्यते । एवं दृष्टान्तमभिधाय दान्तिकयोजनामाह- मिध्यात्वस्य दर्शनमोहनीयक
For Private and Personal Use Only
मकरणम् ॥ |सटीकं०
७१ ॥