SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra षष्टिशतक॥ ४६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रिंशः जिनसिद्धान्तोक्ताष्टाशीतिग्रहमध्यात्रिंशतः पूरणः, चः समुच्चये उग्रग्रहो जिनप्रवचनस्योदग्रोपसर्गवर्गकारित्वाद्दारुणो ग्रहः, अयमेष प्रत्यक्षोपलभ्यमानकार्यो भस्मराशिनामा खमाकाशं तस्य च शून्यत्वात्वमिति गणितव्यवहारे शून्यस्य बिन्दोः संज्ञा नखा इति च विंशतेः संज्ञा, नखानां विंशतिसंख्यत्वात् ततश्च खं च नखाचेति द्वन्द्वः तैः पचानुपूर्व्या अङ्करचनया स्थापितितैर्मितानि परिसंख्यातानि वर्षाणि संवत्सराः स्थितिरेकस्मिन् रासाववस्थानं यस्य स तथा, एकराशौ वर्षसहस्रदय स्थिति इत्यर्थः । स हि ग्रहो भगवन्निर्वाणकाळानन्तरं वर्षसहस्रदयं यावत् क्रूरत्वाद् भगवज्जन्मराशी सङ्क्रान्तत्वाद् भगवन्तं च मुक्तत्वेन दुःखीकर्तुमशक्तत्वात् तत्पक्षतयैव प्रवचनस्य बाधां करिष्यति । दृश्यते च लोकेऽपि कश्चित् कस्यचित्स्वप्रतिपक्षस्य किञ्चिदपकर्त्तुमपारयन्नेतदपकारेणापि तस्यापकृतं भविष्यतीति मूढतया मनसि निधाय तत्पक्षं तत्सदृशं चापकुर्वाणः । यदुक्तं - " त्वं विनिर्जितमनोभवरूपः सा तु सुन्दर ! भवत्यनुरक्ता । पंचभिर्युगपदे च शरैस्तां, ताडयत्यनुशयादिव कामः ॥ १६४ ॥ तथा - ' यस्य किञ्चिदपकर्तुमक्षमः, कार्यनिग्रह - गृहीतविग्रहः । * कान्तवक्त्रसदृशाकृति कृती, राहुरिन्दुमधुनापि बाधते ॥ १६५ ॥ तथाऽन्त्यं दशमं षः पूर्ववत् आश्चर्य अनन्ततमकालभावित्वादद्भुतमसंयतपूजाख्यं एतदिदानीं प्रत्यक्षं जिनमतहतये आर्हन्तमवचनापभ्राजनापादनाय । तत्समानैः प्रागुक्तैस्त्रिभिः समा तुल्यबला दुष्यमा दुष्टा लोकदुःखकारिण्य समा वर्षाणि यस्यां सा तथा कालचक्रस्य पडरकस्य पञ्चमोऽरकः यथा प्राक्तनात्रयः समुदिता जिनमतं निघ्नन्ति । तथा चतुर्थी दुष्यमापि । यदुक्तं १. हरेः २. हरिः इन्द्रः ॥ For Private and Personal Use Only प्रकरणम् ॥ सटीक ० ॥ ४६ ॥
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy