SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra षष्टिशतक॥ ३७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवमेव चिन्तयन्ति, अहो एतेऽस्मत्कीर्त्ति कुर्वते निमित्तकथनादिना चोपकुर्वते, अत एभ्यो यथेप्सितं दीयते । नतु मुधिकया ददति । सुगतये च मुधादानग्रहणे भवतः । यतः - " दुल्लहा हु मुहा दाई मुहा जीवीवि दुल्लहा । मुहा दाई मुहा जीवी दोषि गच्छति सुभगइ ॥ १३२ ॥ ति, ततः किमित्याह - द्वावपि दायक ग्राहको श्रावकगुरू न केवल गुरुरेवेत्यपि शब्दार्थः । प्राग् गुरव इत्यत्र श्राद्धानित्यत्र च बहुवचनं बहवो गुरवो बहवच श्राद्धा एवंविधा अ धुनेति ज्ञापनार्थ इह च द्वाविति द्विवचनं तत्समुदायद्वयापेक्षयेति न दोषः । अमुणितसारावज्ञातपरमार्थौ परमार्थयात्रायं " गिहिणो वेयावडियं न कुज्जा अभिवायणवंदणपूयणं चेति । तथा नक्खत्तं सुमिणं जोगं निमित्तं मंतभेसज्जं । गिहिणो तं न आइक्खे भूयाहिगरणं पयं ॥ १३३ ॥ एतत्कुर्वाणाथ कुशीलाः स्युस्तादृशाश्च श्रावकस्यापि वन्दनानही एव । यत:- " पासत्थो ओसन्नो होइ कुसीलो तहेव संसत्तो । अह च्छंदोविय एए अवदणिज्जा जिणमयंम्मि ॥ १३४ ॥ तइन्दने च प्रत्युतानर्थसम्भवात् । तदुक्तं--पासत्थाई वंदमाणस्स नेयकित्ती न निज्जरा होइ । कायकिलेस एमेव कुणइ तह कम्मबंधं च ।। १३५ ।। एवंविधं परमार्थमजानानौ दुमायां समायां प्रायो दुष्पमायामेवैवंविधगुरुश्रावकयोर्बाहुल्यमिति दुःषमा ग्रहणम् । ब्रुडतो मज्जतो भवाम्बुधाविति शेषः । अयं भावो महादिवत् श्राद्धान् स्तुत्वा तदग्रे च निमित्तादि प्रकाश्य ये दानं लान्ति ये च तादृशं दानं ददति । ते भवाम्बुधौ मज्जन्तीति । धर्मे स्थैर्यार्थे तु धन्यस्त्वं महाकुलप्रसूत इत्यादिकां स्तुतिमपि कुर्यात् शासनप्रभावनादिभिः कारणैर्निमित्तमपि प्रकाशयेदित्यर्थः ॥ ३१ ॥ प्रागुक्तमज्ञातपरमार्था ब्रुडन्ति सम्मति च तेषामेव बाहुल्यं पश्य For Private and Personal Use Only नकरणम् ॥ सटीकं० ॥ ३७ ॥
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy