SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ श्रीशारीरकमीमांसाभाष्ये [अ. २. शैस्तथैवोत्पाद्यन्ते, तेच स्वांशैरिति न क्वचित्कारणव्यवस्थितिः । अतः कारणव्यवस्थासिद्ध्यर्थमेकद्रव्यं विविधविचित्रपरिणामशक्तियुक्तं स्वयमप्रच्युतस्वरूपमेव महदाधनन्तावस्थाश्रयः कारणमाश्रयणीयम् । तच्चैकं कारणं गुणत्रयसाम्यरूपं प्रधानमिति तत्कल्पने हेतूनुपन्यस्यन्तिः–१"भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ कारणमस्त्यव्यक्तम्" इति । अयमर्थः-विश्वरुपमेव वैश्वरूप्यम् , विचित्रसनिवेशं तनुभुवनादि कृत्स्नं जगत् : तच्च जगद्विचित्रसन्निवेशत्वेन कार्यभूतं तत्सरूपाव्यक्तकारणकम् ; कुतः?, कार्यत्वात् कार्यस्य हि सर्वस्य तत्सरूपात्कारणविशेषाद्विभागस्तस्मिन्नेवाविभागश्च दृश्यते; यथा घटमकुटादेः कार्यस्य तत्सरूपान्मृत्सुवर्णादेः कारणाद्विभा गस्तस्मिन्नेव चाविभागः; अतो विश्वरूपस्य जगतस्तत्सरूपात्पधानादुत्पत्तिस्तस्मिन्नेव लयश्चेति प्रधानकारणकमेव जगत् । गुणत्रयसाम्यरूपं प्रधानमेव जगत्सरूपं कारणम् ; सत्त्वरजस्तमोमयसुखदुःखमोहात्मकत्वाजगतः। यथा मृदात्मनाघटस्य मृद्दव्यमेव कारणम् तदेव हि तदुत्पत्त्याख्यप्रवृत्तिशक्तिमत् , तथा दर्शनात् । अव्यक्तस्य गुणसाम्यरूपस्य देशतः कालतश्चापरिमितस्यैव कारणत्वं भेदानां महदहङ्कारतन्मात्रादीनां परिमितत्वादवगम्यते। महदादीनि च घटादिवत्परिमितानि कृत्स्नजगदुत्पत्तौ न प्रभवन्ति, अतस्त्रिगुणं जगद्गणत्रयसाम्यरूपप्रधानैककारणमिति निश्रीयते ॥ __ अबोच्यते-रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च-अनुमीयतइत्यनुमानम् ; न भवदुक्तं प्रधानं विचित्रजगद्रचनासमथम् , अचेतनत्वे सति तत्स्वभावाभिज्ञानधिष्ठितत्वात् यदेवं तत्तथा, यथा रथपासादादिनिर्माणे केवलदादिकम् । दार्वादेरचेतनस्य तज्ज्ञानधिष्ठितस्य कार्यारम्भानुपपत्तेर्दर्शनात्, तज्ज्ञाधिष्ठितस्य कार्यारम्भप्रवृत्तेर्दर्शनाच न प्राज्ञानधिष्ठित १. सालयतत्त्वकौमुदी. १५, १६॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy