________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
प्रयोजनवत्त्वाधिकरणम्.
६५
जगत्करुणया सृजति; प्रत्युत सुखैकतानमेव जनयेज्जगत्करुणया स्वजन् । अतः प्रयोजनाभावाद्ब्रह्मणः कारणत्वं नोपपद्यत इति ॥ ३२ ॥
वद्यम् ॥
एवं प्राप्ते प्रचक्ष्म
लोकवत्तु लीलाकैवल्यम् । २ । १ । ३३ ॥
।
अवाप्तसमस्तकामस्य परिपूर्णस्य स्वसङ्कल्पविकार्यविविधविचित्रचिदचिन्मिश्रजगत्सर्गे लीलैव केवला प्रयोजनम्, लोकवत् - यथा लोके सप्तद्वीपां मेदिनीमधितिष्ठतस्संपूर्णशौर्यवीर्यपराक्रमस्यापि महाराजस्य के - वललीलैकप्रयोजनाः कन्तुकाद्यारम्भा दृश्यन्ते; तथैव परस्यापि ब्रह्मणः स्वसङ्कल्पमात्रावकृप्तजगज्जन्मस्थितिध्वंसादेलींलैव प्रयोजनमिति निर
Acharya Shri Kailassagarsuri Gyanmandir
१. बृ. ६-४-५ ॥
*9
वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति । २ । १ । ३४ ॥
यद्यपि परमपुरुषस्य सकलेतरचिदचिद्वस्तुविलक्षणस्याचिन्त्यश क्तियोगात्माक्सृष्टेरेकस्य निरवयवस्यापि विचित्रचिदचिन्मिश्रजगत्स्टष्टिस्सम्भाव्येत, तथापि देवतिर्यमनुष्यस्थावरात्मनोत्कृष्टमध्यमापकृष्टस्टपक्षपातः प्रसज्येत। अतिघोरदुःखयोगकरणान्नैर्घृण्यं चावर्जनीयमि ति। तत्त्रोसरं-न सापेक्षत्वादिति; न प्रसज्येयातां वैषम्यनैर्घृण्ये, कुतः सापेक्षत्वात- सृज्यमानदेवादिक्षेत्रज्ञकर्मसापेक्षत्वाद्विषमसृष्टेः । देवादीनां क्षे त्रज्ञानां देवादिशरीरयोगं तत्तत्कर्मसापेक्षं दर्शयन्ति हि श्रुतिस्मृतयः१" साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेन कर्मणा ", तथा भगवता पराशरेणापि देवादिवैचित्र्यहेतुः सृज्यमानानां क्षेत्रज्ञानां प्राचीनकर्मशक्तिरेवेत्युक्तं
For Private And Personal Use Only
4