SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशारीरकमीमांसामान्ये [प्र. २. प्रवर्तते । जीवाद्ब्रह्मणो भेदवादिन्यश्श्रुतयो जगब्रह्मणोरनन्यत्वं वदता त्वयैव परित्यक्ताः, भेदे सत्यनन्यत्वासिद्धेः॥ औपाधिकभेदविषया भेदश्रुतयः स्वाभाविकाभेदविषयााभेदश्रुतय इतिचेत्-तत्रेदं वक्तव्यम्-स्वभावतः स्वस्मादभिन्नं जीवं किमनुपहितं जगत्कारणं ब्रह्म जानाति वा, नवा; न जानाति चेत्-सर्वज्ञत्वहानिः; जानाति चेत्-स्वस्मादभिन्नस्य जीवस्य दुःखं खदुःखमिति जानतो ब्रह्मणो हिताकरणाहितकरणादिदोषप्रसक्तिरनिवार्या ।। जीवब्रह्मणोरज्ञानकृतो भेदः, तद्विषया भेदश्रुतिरिति चेत्-तत्रापि जीवाज्ञानपक्षे पूर्वोक्तो विकल्पस्तत्फलं च तदवस्थम् । ब्रह्माज्ञानपक्षे स्वप्रकाशस्वरूपस्य ब्रह्मणोऽज्ञानसाक्षित्वं तत्कृतजगत्सृष्टिश्च न सम्भवति । अज्ञानेन प्रकाशस्तिरोहितश्चेत्-तिरोधानस्य प्रकाशनिवृत्तिकरत्वेन प्रकाशस्यैव स्वरूपत्वात्स्वरूपनिवृत्तिरेवेति स्वरूपनाशादिदोषसहस्रं प्रागेवोदीरितम् । अत इदमसङ्गतं ब्रह्मणो नमत्कारणत्वम्।।२१॥ ___ -...(सिद्धान्तः)... इति प्राप्तेऽभिधीयतेअधिकन्तु भेदनिर्देशात् । २॥ १॥ २२॥ तुशब्दः पक्षं व्यावर्तयति; आध्यात्मिकादिदुःखयोगार्हात्मत्यगास्मनः अधिकम् अर्थान्तरभूतं ब्रह्म । कुतः, भेदनिर्देशात्-प्रत्यगात्मनो हि भेदेन निर्दिश्यते परं ब्रह्म १“य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मनमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः" २ "पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति" ३"स कारणं करणाधिपाधिपः" ४"तयोरन्यः पिप्पलं खादत्ति १. बु. ५-७-२२. मा. पा ||–२, श्वे. १-६॥-३. श्वे. ६-९॥-४. थे. ४-६॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy