SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.४.] ब्राह्माधिकरणम् . १०३ तस्मादागन्तुकेऽपि प्रतिहतिविरहात् तादृशे धीविकासे प्रत्यापनस्खदायक्रम इह कथितः प्राप्तसिद्धेः प्रतीचः॥ ६ अर्वाञ्चो मुक्तिभेदं कतिचिदगणयन् स्वात्ममात्रानुभूति तत्र ब्रह्मानुभूतेर्विहतिरुपधितस्स्यात् स्वतो वेति चिन्त्यम् । सन्ति द्वेधापि दोषास्तत उपचरणान्मुक्तिशब्दोऽत्र युक्तः सालोक्यादिप्रभेदेष्वपि सरणिरियं सावधानैर्विभाव्या ॥ ७ .... अथाविभागेनदृष्टत्वाधिकरणम् ॥ २ ॥ --- जीवेशौ नित्यभिन्नो श्रुतिरिह च सहेत्याह मुक्तस्य भोगं साम्ये पारम्यमुकं स्मृतमपि स पृथग्भातु तस्मात् परस्मात् । मैवं तत्त्वं हि मुक्तौ स्फुरति तदनघो भेदभानांश इष्टस्सिद्धे देहात्मभावे त्विह न हि घटते तत्स्वनिष्ठत्वबुद्धिः ॥ ८ मन्त्रोक्तं भोक्तृभावे यदि सहभवनं ब्रह्म न स्यात् प्रधानं तस्मात्तद्भोग्यभावे भवतु तदुचितं ब्राह्मणव्याकृतेश्च । वैधापि ब्रह्म तत्त्वात् पृथगितर इह स्यादितीदं च वार्त सिद्धे भेदे खनिष्ठस्थितिपरिहरणं ह्यत्र सूत्रोपपाद्यम् ॥ पारम्यं यच्च साम्ये श्रुतमिह न हि तत् सर्वथेत्यप्यधीतं ग्राव्णो हेम्नश्च यद्वव समधरणधृतौ स्यात्तदुक्तिस्तथात्र । एवं तदेहभावे स्थितवति विविधाबाधिताम्नायभूम्ना ब्रह्मवेत्यादिवाक्यं प्रथयति समतां तादृगित्यप्यधीतेः॥ १० .. (अथ ब्राह्माधिकरणम् ॥ ३ ॥) .. ज्ञानत्वे किं फलं स्यादिति मिषतु गुणैस्तादृशं ब्रह्मसाम्यं १किन्तैरन्यैस्वरूपात्तदिह भवतु चिन्मात्ररूपप्रकाशः । इत्थं चात्रोक्तपक्षद्वयमुभयविधश्रुत्युपात्ताविरोधानिधूयाथ द्विधाविर्भवनमघटयत् सिद्धतत्त्वप्रकाशात् ॥ ११ १. किन्थमैंरस्वरूपस्त. पा॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy