________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभाष्ये
अ. २. युक्तसुखदुःखप्रतिसन्धानप्रसङ्गात् । सौभरिप्रभृतिषु ह्यात्मैकत्वेनानेक शरीरप्रयुक्तसुखादिप्रतिसन्धानमेकस्य दृश्यते । नचाहमर्थस्य ज्ञातृत्वात्त
दात्पतिसन्धानाभायो नात्मभेदादिति वक्तुं शक्यम् ; आत्मा ज्ञातैन, स चाहमर्थ एव, अन्तःकरणभूतस्त्वहङ्कारो जडत्वात्करणत्वाच्च शरीरेन्द्रियादिवन ज्ञातेत्युपपादितत्वात्। यच्च-शरीरत्वजडत्वकार्यत्वकल्पित त्वैस्सर्वशरीराणामेकस्याविद्याकल्पितत्वमुक्तम् तदपि सर्वशरीराणामवि चाकल्पितत्वस्यैवाभावादयुक्तम् । तदभावश्चाबाधितस्य सत्यत्वोपपादनात् । यच चेतनादन्यस्य जडत्वदर्शनात्सर्वचेतनानामनन्यत्वमुक्तम्, तदपि सुखदुःखव्यवस्थया भेदोपपादनादेव निरस्तम् । यत्तु-मयैवात्मवन्ति मदविद्याकल्पितान्यहमेव सर्व चेतनजातमित्यहमर्थस्यैक्यमुपपादितम्, तदज्ञातस्वसिद्धान्तस्य भ्रान्तिजल्पितम् ; अहं त्वमाद्यर्थविलक्षणं चिन्मालं ह्यात्मा त्वन्मते । किश्च निर्विशेषचिन्मातातिरेकि सर्व मिथ्येति वदतो मोक्षार्थश्रवणादिप्रयत्नो निष्फलः, अविद्याकार्यत्वात् शुक्तिकारजतादिषु रजताग्रुपादानादिप्रयत्नवत् । मोक्षार्थप्रयत्नो व्यर्थः, कल्पिताचार्यायत्तज्ञानकार्यत्वात्, शुकप्रहादवामदेवादिप्रयत्नवत्। तत्त्वमस्यादिवाक्यजन्यज्ञानं न बन्धनिवर्तकम् , अविद्याकल्पितवाक्यजन्यत्वात् , खयमविद्यात्मकत्वात् , अविद्याकल्पितज्ञानाश्रयत्वात् , कल्पिताचार्यायत्तश्रवणजन्यत्वाद्वा, स्वामबन्धनिवर्तनवाक्यजन्यज्ञानवत् । किन निविशेषचिन्मानं ब्रह्म मिथ्या, अविद्याकार्यज्ञानगम्यत्वात् , अविद्याकल्पितज्ञाताश्रयज्ञानगम्यत्वात् , अविद्यात्मकज्ञानगम्यत्वाद्वा, यदेवं ततथा, यथा स्वामगन्धर्वनगरादिः । नच निर्विशेषचिन्मानं ब्रह्म स्वयं प्रकाशते, येन न प्रमाणान्तरमपेक्षते । यत्त्वात्मसाक्षिकं स्वयं प्रकाशज्ञानं दृश्यते, तत्तु ज्ञेयविशेषसिद्धिरूपं ज्ञातृगतमेव दृश्यत इति पूर्वमेवोक्तम् । यानि च तस्य निर्विशेषत्वसाधकानि यौक्तिकानि ज्ञानान्युपन्यस्तानि, तानि चानन्तरोक्तैरविद्याकार्यत्वादित्यादिभिरनुमानैर्निरस्ता
For Private And Personal Use Only