SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् तस्मादारूढपातेऽप्यधिकृतिरिति नाचोदनीयं हि शास्त्रं यावज्जीवन्तु तनिष्कृतिरिति नियमस्सूत्रकाराघभीष्टः॥ २२ यो बालं हन्ति यः स्त्री शरणमुपगतं यश्च यो वा कृतघ्नः प्रायश्चित्तैर्विशुद्धानपि जगदुरिमान् साधुसंस्पृष्टयनर्हान् । स्मृत्याचारानुसारादिह च गतिरियं दर्शिता सूत्रकारैः शास्त्रं नश्शासनीयं यदि भवति तदा संप्लुतो धर्मसेतुः॥ २३ ब्रह्मांशत्वे समाने गुणविषमतया शुद्धयशुद्धिस्वभावैदेहेर्योगादनुज्ञापरिहरणमपि प्रेक्षणस्पर्शनादेः। इत्येवं सूत्रितं प्राक पुनरिह विविधालेपकक्षोभशान्त्यै सम्यग्ज्ञातात्मनोऽपि स्वतनुसमुचिताचारतः प्रत्यबोधि ॥ २४ -- (अथ स्वाम्यधिकरणम् ॥ ११ ॥) . उद्गीथादावुपास्तिर्भवति हि फलिना यज्वनैवात्र शक्या तस्मात्तत्कर्टकासाविति यदि न परिक्रीतकर्माश्रयत्वात् । ऋत्विक्सादया यथान्ये गुणफलविधयोऽनूयते चैवमेषा शक्यत्वं नाप्युपाधिर्विधिबलनियतेः स्वामिभृत्यक्रमोऽत्र ॥ २५ --(अथ सहकार्यन्तरविध्यधिकरणम् ॥ १२ ॥)--- मन्तव्यत्वे श्रुते सत्यथ मुनिरिति वागस्तु तस्यानुवादः कश्चिन्नयन दृष्टो विधिरिति न पुरा पण्डितत्वस्य लब्धेः। ऊहापोहार्हता हि श्रवणमननतोऽनन्तरं पण्डितत्वं मौनख्यातिः प्रकृष्टे मनन इति विभौ धारणाद्यक्तिरेषा ॥ २६ -- (अथानविष्काराधिकरणम् ॥ १३॥)--- शिष्टं बाल्येन तिष्ठासनमपि विदुषो बालकृत्यन्तदस्तु प्राप्तुं बालस्य भावो न तु सुशक इति स्वरितास्येति चेन्न । दुश्चारित्रादमुं नाविरत इति वचस्स निरुन्धे यतोऽस्मिन्माहात्म्यं खंनिगहेदिति मुनिविहिते बाल्यविध्याशयस्स्यात् ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy