SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणलायवल्यम् व्यस्तेष्वंशानन्य स्तुतिनियतनयादान्यपर्य फलोके। नामादीनामुपास्तो फलमवधितयाऽपेक्षितं भूमवाक्ये नाप्येवं प्रत्यवायश्श्रुत इति विषमोदाहतिर्नार्थसिद्धयै ।। ६२ ---(अथ शब्दादिभेदाधिकरणम् ॥ २४ ॥).-.-- सर्वासु ब्रह्म वेद्यं फलमपि खलु तद्ब्रह्मविद्येति चाख्या ध्यानाद्युक्त्येकलक्ष्ये विधिरपि भजने सर्वविधैक्यमित्थम् । तमाख्यारूपभेदात्तदुपहितविधौ तेन वैशिष्टयसिद्धेमिश्रम्मध्वादिविद्याफलमिह च पृथक्काम्यविद्यासु चैवम् ।। ६३ नानाशब्दादिभेदादिति कथमवदत् सूत्रकृच्छब्दसाम्ये नोते यागदानादय इव भिदुरा भक्तिविश्रान्तिसिद्धेः। सत्यं शब्दस्य भेदस्त्वयमुपचरितो रूपभेदद्रढिम्ना ज्ञानं यच्चाविधेयं करणमिह जगुस्तनिरासेऽभिसन्धिः॥ ६४ यद्वा शब्दादिभेदादिति तु कथयता सूत्रकारेण सम्यन्यासोपासे विभक्ते यजनहवनच्छब्दभेदादभाक्तात् । आख्यारूपादिभेदश्श्रुत इतरसमः किश्च मिनोऽधिकारश्शीघ्रप्राप्त्यादिभिस्स्यात् जगुरिति च मधूपासनादौ व्यवस्थाम्।। -- (अथ विकल्पाधिकरणम् ॥ २५ ॥)..ज्योतिष्टोमाग्निहोत्रप्रभृतिवदधिकानन्दसिद्धयै समुच्चित्यैतायुब्रह्मविद्या न च भजनविधिः कश्चिदेकं प्रति स्यात् । फर्तुन्ताः कालभेदे क्षममिति न मिथोवासनास्थैर्यबाधात् सम्पूर्णब्रह्मलब्ध्यै पृथगिह च विधिःप्रायणान्ते समाधौ ॥६६ रूपादीनां विशेषैननु परभजनन्नैकरूपं विभक्तं सामग्रीभेदतस्तत्फलमपि विषमं सम्मतन्यायतस्स्यात् । न स्यात् सर्वासु विद्याखपि हि फलतया वक्ष्यते भोगसाम्यं For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy