SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् शाखासु प्रक्रियान्या श्रवणमपि पुनर्दृष्टमत्राविशेषं विद्याभेदस्ततस्स्यादिति न तदुभयं युक्तमध्येतृभेदात् । तेषामेवेति वाक्यात कचिदुपजनिता भेदशङ्का त्वयुक्ता स्वाध्याये ब्रह्मविद्यापदमिह हि भवेत्तद्रतेनान्वयोक्तेः ॥ ७ रूपैक्यादैक्यसिद्ध किमितरदुपसंहार्यमन्यो गुणदो न स्याद्विकल्प्यं तदिह किमफला तेन चिन्तेति चेन्न । वेद्याकारैक्यमैक्यं दिशति तदधिकं किंचिदाकृष्यतेऽ कर्मण्यप्येवमेव पहृतिविषयो भेदकांशातिरिक्तः ॥ ( अन्यथात्वाधिकरणम् ॥ २ ॥ ) [म. ३ प्राग्वच्छाखाविभेदेऽप्युपशमितभिदा तादृगुद्गीथविद्या स्यादेका चोदनाद्यैस्तदसदुभयथा रूपभेदोपलब्धेः । गाता गेयं च गेये सकलमसकलं चेति वैषम्यसिद्धौ शेषाभेदोऽप्यभेदं न गमयति भिदा त्वेकभेदेऽपि सिद्धयेत् ॥ ९ छन्दोगोद्गीथशब्दस्तदवयवपरः प्रक्रमादिप्रसिद्धेः For Private And Personal Use Only कृत्स्नोद्गीथाभिधायी प्रकरणनियमाभावतो वाजिनां स्यात् । उद्गीथोक्तिश्च नैषामुपचरणवती गातरि प्रक्रमस्था तत्कर्त्ता साधनीये द्विषदुपशमने तत्फलत्वोक्त्यबाधात् ॥ १० यद्यप्यब्रह्मविद्या परपरिभवनाद्यैहिकार्थप्रयुक्ता न ग्राह्या मोक्षशास्त्रे तदपि समतया तत्परीक्षेति केचित् । काम्या विद्याप्यनिष्टव्यपनयन मुखैर्ब्रह्मविद्योपयुक्तैस्तत्तत्साद्ध्यप्रभेदैर्भवति समुचितालोच नेत्याहुरन्ये || अज्ञात ब्रह्मतत्त्वः कथमिव विमृशेत् कुत्रचिद्रह्मदृष्टि तस्मात्तत्तादृशीनां समुचितमगतेरत्र मीमांसनं स्यात् । आदच्यः कर्मणां च स्वफलवितरणे वीर्यवत्त्वातिरकं ११
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy