SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारापल्याम् अ. ३. व्यष्टिं पञ्चीकृतैस्तैस्सृजति हि स विमुस्तारतम्यं पुनश्च श्रद्धाशब्दस्त्विहापः कथयति निगमे तत्समाख्यावदुक्तेः॥ ५ द्यौः पर्जन्योऽथ पृथ्वी तदनु च पुरुषो योषिदित्येवमेतान् पञ्चाग्नीन् कल्पयित्वा परिकरसहितांस्तेषु पञ्चाग्निविद्या । श्रद्धाख्यं भूतसूक्ष्मं क्रमपरिणतितस्सोमवर्षान्नरेतोरूपं हव्यं सजीवन्तनुधरमरुतो जुहतीति ब्रवीति । ... अथ कृतात्ययाधिकरणम् ॥ २ ॥)...इष्टापूर्तादिरूपन्तनुभृदिह शुभं कर्म यत्किंच कुर्यात् भुक्त्वा कृत्स्नन्तदन्ते पुनरवनिमियादित्यसदृष्टबाधात् । कात्स्न्येनेत्यश्रुतत्वात् सुकृतफलतया जातिभेदावधीतेस्तस्मात् प्रारब्धशेषैस्तदितरसहितैरापतेत् स्वर्गपान्थः॥ ७ धूमं रात्रिं च पक्षं तिमिरकलुषितन्दक्षिणावृत्तिमासान् पश्चाल्लोकं पितॄणां गगनमपि मृतश्चन्द्रमभ्येति कर्मी । प्रत्यावृत्तौ तु चन्द्राद्गगनसततगौ धूममभ्रं च मेघ व्रीह्यादीन्याति रेतस्सिचमथ जननी यात नाचक्रवर्ती ॥ ८ आचारांशस्य साद्धचं चरणवचनतो जातिभोगादिकं स्यात् कर्माचारौ विभक्तौ श्रुतित इति न सद्गत्यभावात्तथोक्तेः। मुख्यं वृत्त्या हि कर्मण्यपि चरणवचो नैकदेशे निरोद्धयं जात्यादिः कर्मभेदप्रभव इति मिते चिन्त्यमाचारसायम् ॥ ९ प्राप्ताचारातिवृत्तौ प्रतिपदमृषयस्सस्मरुः प्रत्यवायान् प्राचीनांहःप्रणाशन्तदनुसरणतः पुण्यकर्माहतां च । नातस्सत्कर्ममात्रात् त्रिदिव इति धिया तत्परित्यागशङ्का नह्याचारपहीणे श्वदृतिजलसमश्शोधको वेदवर्गः ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy