________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.]
जगब्यापारवर्जाधिकरणम्. सनिधिरप्यस्ति । अतो जगनियमनरूपधुरावर्जे १"सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता" २" स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामहतस्य" इत्यनवधिकातिशयानन्दब्रह्मानुभवे मुक्तस्य साम्यम् । ब्रह्म हि स्वस्य परस्य चानुभूयमानमविशेषेणानवधिकातिशयानन्दं भवति,आनन्दसरूपत्वाविशेषात्। सूत्रमपि व्याख्यातम् ॥१७॥
प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॥ प्रत्यक्षं-श्रुतिः; ३"तस्य सर्वेषु लोकेषु कामचारो भवति" ४"इमाल्लोकान्कामानी काममप्यनुसश्वरन् ' इत्यादिश्रुत्या मुक्तस्य जगद्व्यापारोपदेशात्सोऽपीति चेत्-तन्त्र, आधिकारिकमण्डलस्थोक्तेः; आधिकारिकाः परमपुरुषेण लोकनियमनाधिकारे नियुक्ताः हिरण्यगर्भादयः; मण्डलानि तेषां लोकाः, तत्स्थभोगेषु मुक्तस्य यदी. च्छा वर्तते, नत्रतत्र यथाकामं परमपुरुषानुग्रहेण वर्तमानस्तत्रस्थान्भोगान्भुके इति तया श्रुत्योक्तेः । 'कामानी' 'कामचारो भवति' इति हि श्रूयते; न नियुक्त इति ॥ १८ ॥
उत्पत्त्यादिविकारवर्ती हेयमिश्रोऽत्यल्पश्च कथं मुक्तस्य भोगो भवति, यदिच्छातस्सर्वेषु लोकेषु कामचार उच्यत इत्यत्राह
विकारावर्ति च तथाहि स्थितिमाह। चशब्दोऽवधारणे; उत्पत्यादिविकारेषु न वर्तत इति विकारावर्ति परं ब्रह्मैव । निर्धूतनिखिलविकारं निखिलहेयप्रत्यनीककल्याणकतानं निरतिशयानन्दं परब्रह्म सविभूति सकलकल्याणगुणं मुक्तस्य भोग्यम् ; तद्विभूत्यन्तर्गतत्वेन विकारवर्तिनां लोकानामपि मुक्तभोग्यत्वम् ; तथाहि परस्मिन्ब्रह्मणि मुक्तस्यानुभवितृत्वेन स्थितिमाह श्रुतिः-५"यदा होवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति" ५"रसो वै सः रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति" ब्रह्मनिष्ठो ब्रह्मैव लब्ध्वाऽनन्दी भवतीत्यर्थः । ब्रह्म हि निर• तिशयकल्याणानन्तगुणकमनन्तमहाविभूति च । तत्र सविभूतिकब्रह्मानुभवाय विभूत्येकदेशभूतलोकेषु सञ्चरतस्तत्रतत्र कामचारो भवतीत्युच्यते ॥ १९॥
दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ उत्पत्त्यादिजगनियमनं परस्यैव; मुक्तस्य तु परब्रह्मानुभव एव भोग इत्युक्तमेवार्थ प्रत्यक्षानुमाने श्रुतिस्मृती दर्शयत,
१. ते. भान. १-२ ॥–२. तै. भान. ८.४ ॥ -- ३. छा. ७.२५-२ ॥--४. ते भूगु. १०-५ ॥-५. ते, आन, ७-२.१ ॥
For Private And Personal Use Only