SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४९१ पा. ४.] जगद्व्यापारषर्जाधिकरणम् . इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये चतुर्थस्याध्यायस्य चतुर्थः पादः॥४॥ समाप्तश्चाध्यायः॥४॥ शास्त्रं च परिसमाप्तम् ॥ अविस्तृतास्सुगम्भीरा रामानुजमुनेर्गिरः । दर्शयन्तु प्रसादेन स्वं भावमखिलं दृढम् ॥ श्रीमते रामानुजाय नमः. वेदान्तसारे-जगद्व्यापारवर्ज प्रकरणादसन्निहितत्वाच्च ॥ अप. हतपाप्मत्वादिसत्यसङ्कल्पत्वपर्यन्तं मुक्तस्य जगजन्मादिकारणत्ववर्जम् १ 'यतो वा इमानि भूतानि जायन्ते'' इत्यारभ्य १"तब्रह्म" इत्यादि जगत्सृष्ट्यादि परस्यैवेति प्रकरणादवगम्यते; सृष्ट्यादिप्रकरणेषु मुक्तस्यासन्निहितत्वाञ्च। मुक्तस्थातिरोहितस्वमाहात्म्यस्यानवधिकातिशयानन्दपरिपूर्णब्रह्मानुभव एव । ब्रह्मणोऽपि जगद्यापारो लीलामात्रमिति २ "लोकवस्तु लीलाकैवल्यम्" इत्युक्तम्॥ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः।। ३ "इमाल्लोकान् कामानी कामरूप्यनुसञ्चरन्" इत्युपदेशाजगद्यापारोऽस्तीति चेत्-न, हिरण्यगर्भाधाधिकारिकमण्डलस्थभोगोक्तेः । नहि तत्र नियमनं श्रुतम् ॥ १८ ॥ विकारावर्ति च तथाहि स्थितिमाह ॥ विकारासंसृष्टपरिपूर्णपरबमानुभव एव तस्य सुखम् ; तथाऽस्य स्थितिं ४"रसो वै सः । रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति" इत्याह ॥१९॥ १. त. भृगु. १ - अनु।।- २. शारी. २-१-३३॥ -३. भृगु. १०-५॥-४, ते. भान. ७-१॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy