SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( श्रीशारीरकमीमांसाभाष्ये जगद्व्यापारवजधिकरणम्।। ) -- जगद्व्यापारवर्ज प्रकरणादसन्निहितत्वाच्च । ४ । ४ । १७ ॥ किं मुक्तस्यैश्वर्ये जगत्सृष्टचादि परमपुरुषासाधारणं सर्वेश्वरत्वमपि, उत तद्रहितं केवल परमपुरुषानुभवविषयमिति संशयः । किं युक्तम् ? जगदीश्वरत्वमपीति । कुतः | १" निरञ्जनः परमं साम्यमुपैति " इति परमपुरुषेण परमसाम्यापत्तिश्रुतेः सत्यसङ्कल्पत्वश्रुतेश्च । नहि परमसा - म्यसत्यसङ्कल्पत्वे सर्वेश्वरासाधारणजगन्नियमनेन विनोपपद्येते । अतस्सत्यसङ्कल्पत्वपरमसाम्योपपत्तये समस्तजगन्नियमनरूपमपि मुक्तस्यैश्वर्यमिति ॥ ४-११ ॥ Acharya Shri Kailassagarsuri Gyanmandir ( सिद्धान्तः ) .. एवं प्राप्ते प्रचक्ष्म- जगद्वयापारवर्जम् इति । जगद्व्यापारः - निखिलचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदनियमनम् । तद्वर्ज निरस्तनिखिलतिरोधानस्य निर्व्याजब्रह्मानुभवरूपं मुक्तस्यैश्वर्यम् । कुतः प्रकरणात्-निखिलजगन्नियमनं हि परं ब्रह्म प्रकृत्याम्नायते २" यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजज्ञासख तद्ब्रह्म" इति । यद्येतन्निखिलजगन्नियमनं मुक्तानामपि साधारणं स्यात्, ततश्चेदं जगदीश्वरत्वरूपं ब्रह्मलक्षणं न सङ्गच्छते ; असाधारणस्य हि लक्षणत्वम् । तथा ३" सदेव सोम्येदग्र आसीदेकमेवाद्वितीयं तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत " " ब्रह्म वा इदमेकमेवाग्र आसीत् तदेकं सन्न व्यभवत् तच्छेयोरूपमत्य सृजत क्षत्रं यान्येतानि देक्षत्राणि इन्द्रो वरुणस्सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति" १. मु. ३-१-३ ॥―२. तै. भृगु. १ - अनु ॥३. छा. ६-२-१ ॥–४, बु, ३ For Private And Personal Use Only ·
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy