________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[अ. ४.
४८४
वेदान्तदीपे स्मीति" इत्यादिना सुषुप्तपादावकिञ्चित्वमाविष्कृतं हि ॥१६॥
इति वेदान्तसारे अभावाधिकरणम् ॥ ५॥
वेदान्तदीपे-अभावं बादरिराह ह्येवम् ॥ किं मुक्तस्य शरीरेन्द्रियाद्यस्ति? उत न? अथ यथासङ्कल्पमस्तिच नेति च संशयः। १"नह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति अशरीरं वाव सन्तं न प्रियाप्रिये स्पृश तः" इति मुक्तस्याशरीरत्वश्रवणानास्त्येवेत्यकः पक्षः । २“स एकधा भवति त्रिधा भवति" इति सशरीरत्वश्रुतेः अशरीरत्वश्रुतिः कर्मगृहीतशरीरविषयेति शरीरेन्द्रियाद्यस्त्येवेति द्वितीयः पक्षः।राद्धान्तस्तु-३"मनसैतान्कामान्पश्यब्रमते य एते ब्रह्मलोके" इत्यशरीरस्यैव भोगश्रुतेः २ “स एकधा भवति विधा भवति" इतिश्रुतेश्च यथासङ्कल्पमस्ति च न चेति । सूत्रार्थस्तु-शरीराभावं बादरिमैने; एवमाहहि श्रुतिः १"अशरीरं वाव सन्तम्" इति ॥१०॥
भावं जैमिनिर्विकल्पामननात् ।। शरीरादिभावं जैमिनिमने ; कुतः? विकल्पामननात्-विविधः कल्पः-विकल्पः,२“स एकधा भवति त्रिधा भवति" इत्यादिना मुक्तस्य हि विविधकल्पनमाम्नायते; आत्मन एकरूपस्याच्छेद्यस्य वै. विध्यासम्भवाच्छरीरद्वारेणैव हि विज्ञायते वैविध्यम् ॥११॥
द्वादशाहवदुभयविधं बादरायणोऽतः ॥ अतः उभयश्रुतेरिच्छातः, उभयविधम् , शरीरवत्त्वमशरीरत्वं च भगवान्बादरायणो मेने ; द्वादशाहवत् --यथा द्वादशाह उभयश्रुतेस्सत्रमहीनंच;"द्वादशाहमृद्धिकामा उपेयुः" इति सत्रं भवति, ५"द्वादशाहेन प्रजाकामं याजयेत्” इत्यहीनम् ॥ १२ ॥ - तन्वभावे सन्ध्यवदुपपत्तेः ॥ स्वेनैव सृष्टतनुप्रभृत्युपकरणाभावे परमपुरुषसृष्टैरुपकरणै गोपपत्तेस्सत्यसङ्कल्पोऽपि स्वयं न सृजति; सन्ध्यवत्यथा स्वप्ने ६"अथ रथान्" इत्यारभ्य६"स हि कर्ता" इति ७“य एष सुप्तेषु" इत्यारभ्य ७" तदु नात्येति कश्चन" इतिचेश्वरसृष्टैरुपकरणैर्जीवो भुङ्क्ते तथा मुक्तोऽपि लीलाप्रवृत्तेश्वरसृष्टैः पितृलोकादिभिर्लीलारसं भुते ॥ १३ ॥
भावे जाग्रद्वत् ॥ स्वसङ्कल्पसृष्टतनुप्रभृत्युपकरणसद्भावे जाग्रत्पुरुषभोगवन्मुक्तो लीलारसं भुङ्क्ते परमपुरुषोऽपि दशरथवसुदेवादिपितृलोकादि
१. छा. ८-१२-१॥२. छा. ७-२६-२ ।। -३. छा. ८-१२-५॥-४॥५॥-६. छा. ६-३-१०॥-७. कठ. २-५-८॥
For Private And Personal Use Only