SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ४.) मभावाधिकरणम् . ४८१ भयी श्रुतिरुपपद्यते । द्वादशाहवत्-यथा १"द्वादशाहमृद्धिकामा उपेयुः" २ "द्वादशाहेन प्रजाकामं याजयेत्" इत्युपैतियजतिचोदनाभ्यां सङ्कल्पभेदेन सत्रमहीनं च भवति ॥ १२॥ यदा शरीराद्युपकरणवत्त्वम् । तदा तानि शरीरायुपकरणानि खेनैव सृष्टानीति नास्ति नियम इत्याहतन्वभावे सन्ध्यवदुपपत्तेः । ४।४।१३॥ खेनैव सृष्टतनुप्रभृत्युपकरणाभावे परमपुरुषसृष्टैरुपकरणोंगोपपत्तेः सत्यसङ्कल्पोऽपि स्वयं न सृजति । यथा स्वमे ३॥ अथ रथान् रथयोगान् पथस्सृजते " इत्यारभ्य ३" अथ वेशन्तान् पुष्करिण्यः सवन्त्यः सृजते स हि कर्ता" इति ४“य एषु सुप्तेषु जागर्ति कामंकामं पुरुषो नि. मिमाणः तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते तस्मिन् लोकाश्श्रितास्सर्वे तदु नात्येति कश्चन" इति ईश्वरसृष्टैः रथाद्युपकरण वो भुङ्क्ते तथा मुतोऽपि लीलाप्रवृत्तेनेश्वरेण सृष्टैः पितृलोकादिभिर्लीलारसं भुते॥१३॥ भावे जाग्रहत् ।४।४।१४॥ स्वसङ्कल्पादेव सृष्टतनुप्रभृतिपितृलोकायुपकरणभावे जाग्रत्पुरुषभोगवन्मुक्तोऽपि लीलारसं भुङ्क्ते परमुपुरुषोऽपि लीलार्थ दशरथवमुदेवादिपितृलोकादिकमात्मनः सृष्ट्वा तैर्मनुष्यधर्मलीलारसं यथा मुले तथा मुक्तानामपि खलीलायै पितृलोकादिकं स्वयमेव सृजति कदाचित् । कदाचिच्च मुक्ताः सत्यसङ्कल्पत्वात्परमपुरुषलीलान्तर्गतस्वपितृलोकादिक स्वयमेव सृजन्तीति सर्वमुपपन्नम् ॥ १४ ॥ नन्वात्माऽणुपरिमाण इत्युक्तम् । कथमनेकशरीरेष्वेकस्याणोरास्माभिमानसम्भव इत्यत्राह १॥-२॥-३. बु. ६-३-१० ॥-४, कठ, २-५-८ ॥ *61 For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy