SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (श्रीशारीरकमीमांसाभाष्ये संकल्पाधिकरणम् ॥४॥)... संकल्पादेव तच्छुतेः।४।४।८॥ मुक्तः परं ब्रह्मोपसम्पद्य ज्ञानवरूपोऽपहतपाप्मत्वादिसत्यसङ्कत्पत्वपर्यन्तगुणक आविर्भवतीत्युक्तम् ; तमधिकृत्य सत्यसङ्कल्पत्वप्रयुक्ता व्यवहाराः श्रूयन्ते १" स तत्र पर्येति जक्षत्रीडव्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा " इति । किमस्य ज्ञात्यादिप्राप्तिः प्रयत्नान्तरसापेक्षा, उत परमपुरुषस्येव सङ्कल्पमात्रादेव भवतीति विशये; लोके राजादीनां सत्यसङ्कल्पत्वेन व्यवहियमाणानां कार्यनिष्पादने प्रयत्नान्तरसापेक्षत्वदर्शनादस्यापि तत्सापेक्षा -(सिद्धान्तः)..इति प्राप्त उच्यते-सङ्कल्पादेव-इति । कुतः१ तच्छ्रुतेः २“स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति" इति हि सङ्कल्पादेव पित्रादीनां समुत्थानं श्रूयते । नच प्रयत्नान्तरसापेक्षत्वाभिधायि श्रुत्यन्तरं दृश्यते येनास्य “सङ्कल्पादेव" इत्यवधारणस्य ३"विज्ञानघन एव" इतिवद्यवस्थापनं क्रियते ॥ ८ ॥ अत एव चानन्याधिपतिः।४।४।९॥ ___यतो मुक्तस्सत्यसङ्कल्पः, अत एवानन्याधिपतिश्च । अन्याधिपतित्वं हि विधिनिषेधयोग्यत्वम् । विधिनिषेधयोग्यत्वे हि प्रतिहतसङ्क. ल्पत्वं भवेत् । अतस्सत्यसङ्कल्पत्वश्रुत्यैवानन्याधिपतित्वं च सिद्धम् । अत एव ४" स स्वरावम्भवति" इत्युच्यते ॥९॥ इति श्रीशारीरकमीमांसाभाष्ये सङ्कल्पाधिकरणम् ॥ ४ ॥ १. छा. ८-१२-३॥-२. छा. ८-२-१॥-३, बृ. ४.४-१२॥-४. छा.७-२५-२॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy