________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तसारे
[अ. ४. ज्ञानघन एवं" इत्यादिभिर्न प्रतिपाद्यत इति मन्यते । कस्तर्हि "विज्ञाधन एव" इत्यवधारणस्यार्थः? कृत्स्नोऽप्यात्मा जडव्यावृत्तवप्रकाशः; नान्यायत्तप्रकाशः स्वल्पोऽपि प्रदेशोऽस्तीत्ययमों वाक्यादेव सुव्यक्तः २"स यथा सैन्धवधनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव एवं वा अरेऽयमात्माऽनन्तरोऽवाह्यः कृत्स्नः प्रज्ञानघन एवं" इति । नचैवं प्रत्यगात्मनो धर्मिस्वरूपस्य कृत्स्नस्य विज्ञानघनत्वेऽप्यपहतपाप्मत्वसत्यसङ्कल्पस्वादिधर्मसम्बन्धो वाक्यान्तरावगतो विरुध्यते; यथा सैन्धवघनस्य कृस्वस्य रसघनत्वे रसनेन्द्रियावगते चक्षुराद्यवगताः रूपकाठिन्यादयो न विरुध्यन्ते । इदमत्र वाक्यतात्पर्य यथा रसवत्स्वाम्रफलादिषु त्वगादिप्रदेशभेदेन रसभेदे सत्यपि सैन्धवधनस्य सर्वत्रैकरसत्वम् तथाऽऽत्मनोऽपि सर्वत्र विज्ञानस्वरूपत्वम् ; स्वप्रकाशस्वरूपत्वमित्यर्थः ॥ ७ ॥
इति श्रीशारीरकमीमांसाभाष्ये ब्राह्माधिकरणम् ॥ ३ ॥ वेदान्तसारे ब्राह्मण जैमिनिरुपन्यासादिभ्यः ॥ अस्य स्वरूपा. विर्भावः ब्राह्मण-अपहतपाप्मत्वादिगुणकस्वरूपेण ; ते हि ब्रह्मगुणाः प्रत्यगास्मनोऽपि स्वाभाविका गुणा इति ३ “य आत्माऽपहतपाप्मा" इत्यारभ्य उपन्यासादिभ्यः अवगम्यते ; त एव ४"जक्षत्क्रीडन रममाणः" इस्यादिनोच्यन्ते । इति जैमिनेर्मतम् ॥५॥
चिति तन्मात्रेण तदात्मकत्वादित्यौडलोमिः॥ १"विज्ञानधन ए. व" इत्यवधारणात् विज्ञानमात्र*खरूप इत्यौडुलोमिः ॥ ६॥
एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॥ १"विज्ञानधन एव' इति खप्रकाशस्वात्मस्वरूप इत्यवगतेऽपि ३ “य आत्माऽपहतपाप्मा' इत्युपन्यासादिना पूर्वेषामपहतपाप्मत्वादीनामपि सद्भावावगमादुभयश्रुत्यवगतोभयखरूपस्य परस्परविरोधाभावाद्रपद्वयं नान्योन्यपरिहारीत्युभयरूपसमुच्चयं भगवार बादरायणो मेने ॥ ७॥
इति वेदान्तसारे ब्राह्माधिकरणम् ॥ ३ ॥
२... ४-४-१२॥ २.१६-५-१३॥ ३.छा. ८-७-१॥ ४.छा. ८-१२-३॥ *स्वरूपेण-पा।
For Private And Personal Use Only