SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ४.] सम्पद्याविर्भावाधिकरणम् . ४७१ इति किं परं ज्योतिरुपसम्पन्नस्य प्रत्यगात्मनस्वरूपाविर्भावः प्रतिपाधते, उ, तान्येन साध्येन रूपेण सम्बन्ध इति संशयः । खस्वरूपस्य सुषुप्त्यादौ निरानन्दत्वदर्शनात् , खरूपमात्रस्य नित्याविर्भूतत्वाच, साध्येन सुखैकान्तेन रूपेण सम्बध्यते । एवंच १ 'अभिनिष्पद्यते" इतिवचनं सङ्गच्छते । परं ज्योतिरुपसम्पन्नस्य ह्यानन्दित्वं श्रूयते २" रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति"३"स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामहतस्य" इत्यादिषु । अतस्साध्येन रूपेणेति पूर्वः पक्षः । राद्धान्तस्तु-१" खेन रूपेणाभिनिष्पद्यते" इति विशेषणात्स्वरूपाविर्भाव एव । स्वरूपस्य चापहतपाप्मत्वादिगुणकतया प्रजापतिवाक्योदितस्य कर्मकृतदेहसम्बन्धतत्कृततिरोधानस्य परज्योतिरुपसम्पत्त्या सूक्ष्मदेहविनिर्मुक्तस्यासङ्कुचितज्ञानादिगुणकवरूपाविर्भावात् खयाथात्म्यानुभवपूर्वकानवधिकातिशयानन्दब्रह्मानुभवस्सम्पत्स्यत इति अभिनिष्पद्यते' इतिचोपपन्नतरम् । सू. त्रार्थस्तु-परं ज्योतिरुपसम्पद्य स्वस्वरूपाविर्भावः प्रतिपाद्यते । कुतः१ खेनशन्दात्-साध्यस्यापि रूपस्य खासाधारणत्वेन खेनेति विशेषणं ह्यनर्थकम् ॥१॥ स्वस्वरूपमात्रस्य 'अहं जानामि' इति नित्याविर्भूतत्वेन १"परं ज्योतिरुपसम्पध" इत्यनर्थकमित्याशङ्कयाह मुक्तः प्रतिज्ञानात् ॥ कर्मसंबन्धतत्कृतदेहादेर्मुक्तस्वरूपमत्र १"खेन रूपेणाभिनिष्पद्यते" इत्युच्यते । कथमिदमवगम्यते? ४ 'एतं त्वेव ते भूयोऽनुव्याख्यास्यामि' इति कर्महेतुकदेहसम्बन्धतत्कृतजागरिताद्यवस्थाविनिर्मुक्तखरूपस्यात्र वक्तव्यतया प्रतिज्ञानात् ॥२॥ एवमपि खरूपमात्राविर्भावस्य पुरुषार्थत्वं न सियतीत्याशङ्कयाह आत्मा प्रकरणात् ॥ देहादिविनिर्मुक्तः स्वरूपेणावस्थित आत्मा अपहतपाप्मत्वादिसत्यसङ्कल्पत्वपर्यन्तगुणकः तस्य ह्याविर्भाव उच्यते : कुतः प्रक. रणात् ; ५“य आत्मा अपहतपाप्मा" इति प्रकृत्य हि ४"एतं त्वेव ते भूयोऽ नुव्याख्यास्वामि" इत्यादिनोच्यते । अतोऽपहतपाप्मत्वादिगुणकवरूपस्य क. ख्यिाविद्यातिरोहितस्य परंज्योतिरुपसम्पद्य निवृत्ततिरोधानस्याऽविर्भावः प्रतिपाद्यते ॥३॥ इति वेदान्तदीपे सम्पद्याविर्भावाधिकरणम् ॥ १ ॥ १. छा. ८-१२-२-२. ते. आन. ७-अनु, १॥-३. ते. आन. ८ अनु. ४॥ -४. छा. ८.९-३॥-५. छा. ८-७-१॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy