________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५२ श्रीशारीरकमीमांसाभाष्ये
[अ. ४. वेदान्तदीपे-वायुमब्दादविशेषविशेषाभ्याम् ॥ १"तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह्नः" इत्यारभ्य १"मासेभ्यस्संवत्सरं संवत्सरादादित्यम्" इति च्छान्दोग्ये श्रुतम्।तत्र संवत्सरादित्ययोर्मध्ये देवलोको वायुश्च श्रुतौ श्रुत्यन्तरे । द्वयोः प्रकरणयोः किं देवलोको वायुश्चान्तरभूती, उत वायुरेक एवेति संशयः। शब्दभेदादर्थान्तरभूताविति पूर्वः पक्षः। अर्थान्तरत्वे सतिर 'देवलोकादादित्यम्" इति देवलोकस्य३ "तेन स ऊर्ध्वमाक्रमते स आदित्यम्" इति वायोश्चादित्यात्पूर्वत्वेन श्रौतक्रमनिर्दिष्टत्वाद्देवलोकवायू यथेष्टक्रमेण निवेशयितव्यौ । राद्धान्तस्तु-वायुरेव देवलोकशब्देन निर्दिष्ट इति तस्मादनन्यः। देवानां लोक इति हि देवलोकः, देवानां वासस्थानमित्यविशेषेण निर्दिष्टम्।४'योऽयं पवत एष एव देवानां गृहाः” इति वायोर्विशेषेण देवानां वासस्थानत्वेन श्रुततत्वादविशेषनिर्दिष्टो देवलोको वायुरेवेति निश्चीयत इति । संवत्सरादूर्व वायुयोरादित्य इति क्रमश्च स्यात् ॥ २॥
सूत्रार्थस्तु-अब्दात्-संवत्सरादूर्ध्वम् आदित्यात्पूर्व वायुमेकमेव निवेशयेत्, देवलोकवायुशब्दाभ्याम् अविशेषविशेषाभ्यां वायोरेकस्यैव निर्दिष्टत्वात् । दे. वानां वासस्थानमित्यविशेषेण हि देवलोकशब्दः वायुं देवानामावासस्थानभूतमभिदधाति ; वायुशब्दस्तमेव विशेषेणेति द्वयोः प्रकरणद्वयविहितयोरेकत्वादित्यर्थः ॥२॥
इति वेदान्तदीपे वाय्वधिकरणम् ॥ २ ॥
m(श्रीशारीरकमीमांसाभाष्ये वरुणाधिकरणम् ॥३॥)
.
तटितोऽधि वरुणस्सम्बन्धात् । ४।३।३॥
कौषीतकिनास एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम्" इत्यत्राग्निलोकशब्दस्यार्चिःपर्यायत्वेन प्राथम्यमविगीतम् । वायोश्च संवत्सरादूर्ध्व निवेश उक्तः। आदित्यस्याप्यत्र प्राप्तपाठक्रमबा
१. छा. ४-१५-५ ॥-२. पृ. ८-२-१५ ॥--३. बृ. ७-१०-१॥-४॥-५, को. १-अ. ३॥
For Private And Personal Use Only