SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४५ पा. २.] दक्षिणायनाधिकरणम्. वेदान्तसारे-अतश्चायनेऽपि दक्षिणे॥ अतः-बन्धहेत्वभावादेव दक्षिणायनमृतस्यापि विदुषो ब्रह्मप्राप्तिरस्त्येव ॥१९॥ योगिनः प्रति स्मयेते स्मार्ते चैते॥ १ "यत्र काले त्वनावृत्तिमावृत्ति चैव योगिनः" इति न मरणकालस्स्मयते; अपितु योगिनो विद्यानिष्ठान्प्रति अचिरादिका तद्विपरीताचेति एते-स्माते-स्मृतिविषयभूते, स्मर्येते.१ "नैते स. ती प्रार्थ जानन्योगी मुह्यति कश्चन" इतिवचनात् ॥ २० ॥ इति वेदान्तसारे दक्षिणायनाधिकरणम् ॥ ११ ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तसारे चतुर्थस्याध्यायस्य द्वितीयः पादः ॥२॥ वेदान्तदीपे-अतश्चायनेऽपि दक्षिणे ॥ दक्षिणायने मृतस्य विदुषो ब्रह्मप्राप्तिरस्ति, नेति संशयः । २"अथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यं गच्छति" इति विदुषो दक्षिणायने मृतस्य चन्द्रसायुज्यश्रवणात् , चन्द्रं प्राप्तानाम् ३"अथैतमेवाध्वानं पुनर्निवर्तन्ते" इति वचनाच, दक्षिणायनमृतस्य ब्रह्मप्राप्तिन सम्भवतीति पूर्वः पक्षः। राद्धान्तस्तु. पूर्वोक्ताद्वन्धहेत्वभावाद्विदुषश्चन्द्र प्राप्तस्यापि पुनरावृत्तिर्न सम्भवति । चन्द्रसायुज्यवचनं विदुषो ब्रह्म पेप्सोर्विश्रमस्थानमात्रविषयम् आवृत्तिवचनंत्वविदुषामेव। सूत्रार्थस्तु-यतो हेतोर्निशि मृतस्यापि ब्रह्मप्राप्तिः, तत एव बन्धहेत्वभावाइक्षिणायने मृतस्यापि ब्रह्मप्राप्तिरस्त्येव ॥ १९॥ १“यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः" इति मरणकालविशेषः स्मर्यत इति चेत्, तत्राह योगिनः प्रति स्मर्येते स्मार्ते चैते ॥ योगिनः - ब्रह्मविद्यानिष्ठान्प्रति एते-देवयानपितृयाणगती, स्मार्त स्मर्येते स्माते-स्मृतिविषयभूते अहरहस्स्मर्तव्ये. स्मर्येते इस्यर्थः--- १" यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः" १. गी. ८-२३-२७ ॥--२. तै. ना, ५२-अनु ॥–३. छा. ५-१०-५॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy