________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४० श्रोशारीरकमीमांसाभाष्ये
[अ.४. परमपुरुषेणानुगृहीतो जीवस्तत्प्रसादप्रकाशितद्वारस्तयैव मूर्धन्यया नाडया गच्छति-इति ॥
सूत्रार्थस्तु-हार्दपरमपुरुषाराधनरूपविद्यासामर्थ्यात्, तच्छेषगत्यनु. स्मृतियोगाश्च प्रीतहार्दानुगृहीतो भवति जीवः । ततः तदोकः-जीवस्य स्थान ह. दयम्, अग्रज्वलनम्-प्रकाशिताग्रं भवति एवं परमपुरुषप्रकाशितद्वारः शताधि. कया गच्छति; १"तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः" २"सर्वस्य चाहं हृदि सन्निविष्टः' इति हार्दः परमात्मा ॥ १६ ॥
___इति वेदान्तदीपे तदोकोधिकरणम् ॥ ८ ॥
--(श्रीशारीरकमीमांसाभाष्ये रश्म्यनुसाराधिकरणम् ॥९॥)
.
रश्म्यनुसारी।४।२।१७॥ विदुषो हृदयाच्छताधिकया मूर्धन्यनाड्या निर्गतस्यादित्यरश्मीननुसत्यादित्यमण्डलगतिः श्रूयते-३" अथ यौतदस्माच्छरीरादुकामत्यथैतैरेव रश्मिभिरूप्रमाक्रमते" इति । तत्र रश्म्यनुसारेणैवेत्ययं गतिनियमस्सम्भवति, नेति चिन्तायां-निशि मृतस्य विदुषो रश्म्यनुसारासम्भवादनियमः । वचनन्तु पक्षमाप्तविषयम्
..सिद्धान्तः). इति प्राप्त उच्यते-रश्म्यनुसारी-इति । रश्म्यनुसार्येव विद्वान्ध्र्व गच्छतिः कुतः १३" अथैतैरेव रश्मिभिः" इत्यवधारणात्, पाक्षिकत्वे होवकारोऽनर्थकस्स्यात् । यदुक्तं निशि मृतस्य रश्म्यसम्भवाद्रश्मीननुमृत्य गमनं नोपपद्यत इति ; तन्त्र, निश्यपि सूर्यरश्म्यनुसारस्सम्भवति लक्ष्यते हि निश्यपि निदाघसमये ऊष्मोपलब्ध्या रश्मिसद्भावः, हेमन्तादौ तु हिमाभिभवादर्दिन इवोष्मानुपलम्भः श्रूयते च नाडीरश्मीनां सर्वदाऽन्योन्यान्वयः-४"तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं १. ते. ना. ११-अनु ॥-२. गी. १५-१५॥-३. छा. ८-६-५॥-४. छा.८-६-२॥
For Private And Personal Use Only