SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ---(श्रीशारीरकमीमांसाभाष्ये आरम्भणाधिकरणम् ॥६॥).. तदनन्यत्वमारम्भणशब्दादिभ्यः ।२।१। १५॥ १" असदितिचेन्न प्रतिषेधमानत्वात्" इत्यादिषु कारणभूताहह्मणः कार्यभूतस्य जगतोऽनन्यत्वमभ्युपगम्य ब्रह्मणो जगत्कारणत्वमुपपादितम् , इदानीं तदेवानन्यत्वमाक्षिप्य समाधीयते । तत्र काणादा: प्राङः-न कारणात्कार्यस्यानन्यत्वं सम्भवति , विलक्षणबुद्धिबोध्यत्वात्, न खलु तन्तुपटमृत्पिण्डघटादिषु कार्यकारणविषया बुद्धिरेकरूपा । शब्दभेदाच, न हि तन्तवः पट इत्युच्यन्ते, पटो वा तन्तव इति। कार्यभेदाच्च, नहि मृत्पिण्डेनोदकमाहियते, घटेन वा कुड्यं निर्मीयते । कालभेदाच्च , पूर्वकालं च कारणम्, अपरकालं च कार्यम् । आकारभेदाच, पिण्डाकारं कारणम् , कार्य च पृथुबुध्नोदराकारम् ; तथा सत्यामेव मृदि घटो नष्ट इति व्यवह्रियते । सङ्ख्याभेदश्च दृश्यते-बहवस्तन्तवः, एकश्च पटः । कारकव्यापारवैयर्थ्यञ्च-कारणमेवचेत्कार्य किं कारकव्यापारसाध्यं स्यात् । सत्यपि कार्ये कार्योपयोगितया कारकव्यापारेण भवितव्यं चेत्-सर्वदा कारकव्यापारेण नोपरन्तव्यम् । सर्वस्य सर्वदा सत्त्वेन नित्यानित्यविभागश्च न स्यात् । अथ कार्य सदेव पूर्वमनभिव्यक्तं कारकव्यापारेणाभिव्यज्यते, अतः कारकव्यापारार्थवत्त्व, नित्यानित्यविभागश्चोच्यते तदसत्, अभिव्यक्तेरभिव्यक्त्यन्तरापेक्षत्वे अनस्थवानादनपेक्षत्वे कार्यस्य नित्योपलब्धिप्रसङ्गात्तदुत्पत्यभ्युपगमे चासत्कार्यवादप्रसङ्गात् । किञ्च कारकव्यापारस्याभिव्यञ्जकत्वे घटार्थेन कारकव्यापारेण करकादेरप्यभिव्यक्तिः प्रसज्यते, सम्पतिपन्नाभिव्यञ्जकभावेषु दीपादिष्वभिव्यगचविशेषनियमादर्शनात १. शारी. २-१-७॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy