________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३४ वेदान्तदीपे
[अ.४. अस्यैव चोपपत्तेरूष्मा ॥ अस्य - सूक्ष्मशरीरस्य विद्यमानत्वोपपत्तेश्च न तदुपमर्दैन । उपलभ्यते ह्युत्क्रामतो विदुषस्सूक्ष्मदेहगुण ऊष्मा ; अन्यत्रानु पलम्भान स्थूलगुणः॥ ११ ॥
प्रतिषेधादिति चेन्न शारीरात्स्पष्टो ह्येकेषाम् ॥ १“अथाकामयमानो न तस्य प्राणा उत्क्रामन्ति" इति विदुष उत्क्रान्तिप्रतिषेधादत्रैव साक्षाब्रह्मप्रा. तिरिति चेत् नैतत् विदुष उत्क्रममाणस्याचिरादिकया गमनाय प्राणा न वि. श्लिप्यन्ते इति ह्यच्यते १“न तस्य प्राणा उत्क्रामन्ति" इति । अयमों माध्यन्दिनानां पाठे स्पष्टोऽभिधीयते १“योऽकामो निष्काम आप्तकाम आत्मकामः न तस्मात्प्राणा उत्क्रामन्ति' इति ॥ १२॥
स्मयते च ॥ विदुषोऽपि मूर्धन्यनाडया गमनं स्मर्यते च २ "ऊर्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् । ब्रह्मलोकमतिक्रम्य तेन याति पराङ्गतिम्" इति ॥१३॥
इति वेदान्तसारे आसृत्युपक्रमाधिकरणम् ॥ ५ ॥ वेदान्तदीपे-समाना चामृत्युपक्रमादमृतत्वं चानुपोष्य ॥ इयमु. कान्तिः किं विद्वदविदुषोस्समाना, उताविदुष एवेति संशयः। विदुषोऽत्रैवा मृतत्वप्राप्तिश्रुतेरविदुष एवेति पूर्वः पक्षः; श्रूयते हि विदुषोऽत्रैव ब्रह्मप्राप्तिः३“यदा सर्व प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथ मोऽमृतो भवत्यत्र ब्रह्म समश्नुते" इति । राद्धान्तस्तु-विदुषोऽचिरादिकयैव ब्रह्मप्राप्तिः । अर्चिरादिगत्युपक्रमात्प्रागियमुत्क्रान्तिस्समाना । गतिश्च मूर्धन्यनाड्या ४'शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति" इति श्रुतेः । ३ “यदा सर्वे प्रमुच्यन्ते" इत्यनेन गतिश्रुत्यविरोधायामृतत्वसाधनभूतोपासननिष्पत्तिरुच्यते, हृदि स्थिताः कामा यदा प्रमुच्यन्ते, तदैवोपासनारम्भान्मयोऽमृतो भवतीति । अत्र - कामविमोकपूर्वकोपासने स्थितोऽर्चिरादिकया गत्या ब्रह्म समश्नुते इत्यर्थः। सूत्रार्थस्तु-सृतिः-गतिः, आगत्युपक्रमादुत्क्रान्तिर्विदुषोऽपि समाना, विदुषोऽचिरादिगतिश्रुतेः।३"अथ मोऽमृतो भवति" इत्युच्यमानममृतत्वमनुपोग्य च अदग्ध्वैव शरीरेन्द्रियादिसम्बन्धम् उपासनारम्भपरिकररूपमित्यर्थः ॥ ७॥
१.बृ. ६.४-६॥-२. याज्ञवल्क्य, अध्यात्मप्र. १६७-श्लो॥-३. कठ, २-६-१४॥ -४. कठ. २.६.१६ ॥
For Private And Personal Use Only