SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३० श्रीशारीरकमीमांसामान्ये [अ. ४. प्रद्योतेनैप आत्मा निष्कामति चक्षुषो वा मूनों वा अन्येभ्यो वा शरौरदेशेभ्य इति। १"शतं चैका च हृदयस्य" इत्यनया श्रुत्यैकार्थ्यान्मूधर्नो निष्क्रमणं विद्वद्विषयम् इतरदविद्वद्विषयम्। यदुक्तं-विदुषोऽवेवामतत्वं श्राव्यते-इति तत्रोच्यते-अमृतत्वं चानुपोष्य-इति । चशब्दोऽवधारणे। अनुपोष्य-शरीरेन्द्रियादिसम्बन्धमदग्ध्वैव, यदमृतत्वम्-उत्तरपूवाघयोरश्लेषविनाशरूपं प्राप्यते ; तदुच्यते २“यदा सर्वे प्रमुच्यन्ते" इत्यादिकया श्रुत्येत्यर्थः। २ “अत्र ब्रह्म समश्नुते" इति च उपासनवेलायां यो ब्रह्मानुभवः । तद्विषयमित्यभिप्रायः ।। ७ ॥ तदापीतेस्संसारव्यपदेशात् । ४।२।८॥ ___अवश्यं च तत्-अमृतत्वमदग्धदेहसम्बन्धस्यैवेति विज्ञेयम् । कुतः ? आपीतेः संसारव्यपदेशात् --अपीतिः--अप्ययः, ब्रह्मप्राप्तिः । सा चाचिरादिना मार्गेण देशविशेषं गत्वेति वक्ष्यते । आतदवस्थाप्राप्तः संसारः-देहसम्बन्धलक्षणो हि व्यपदिश्यते –३"तस्य तावदेव चिरं यावन विमोक्ष्येऽथ सम्पत्स्ये" इति ४"अश्व इव रोमाणि विधृय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि" इति च ॥ ८ ॥ सूक्ष्म प्रमाणतश्च तथोपलब्धेः।४।२।९॥ इतश्च विदुषोऽपि बन्धो नात्र दग्धः, यतस्सूक्ष्म शरीरमनुवर्तते । कुत इदमवगम्यते ; प्रमाणतस्तथोपलब्धेः-उपलभ्यते हि देवयानेन पथा गच्छतो विदुषः५ "तं प्रतिब्रूयात्" ६ "सत्यं घूयात्" इति चन्द्रमसा संवादवचनेन शरीरसद्भावः । अतस्सूक्ष्मशरीरमनुवर्तते । अतश्च बन्धो न दग्धः ॥९॥ १. कठ. २-६.१६ ॥ -२. कठ. २-६-१४ ।। --३. छा. ६.१४-२ ॥ ---४. ग. ८-१३.१॥--५, को. १-२॥ ६॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy