SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २. मनोधिकरणम्. ४२५ इति वचनं १"वानसि सम्पद्यते" इति वचनवदुपपन्नम् , २"तस्मादुपशान्ततेजा अपुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः" इति ॥२॥ इति वेदान्तदीपे वागधिकरणम् ॥ १ ॥ -- (श्रीशारीरकमीमांसाभाष्ये मनोधिकरणम् ॥ २॥).-.. तन्मनः प्राण उत्तरात् । ४।२।३॥ तत्-सर्वेन्द्रियसंयुक्तं मनः प्राणे सम्पयते-प्राणेन संयुज्यते न मनोवृत्तिमात्रम् । कुतः? उत्तरात्-१"मनः प्राणे" इति वाक्यात् । अधिकाशङ्का तु-४"अन्नमयं हि सोम्य मनः"इति वचनान्मनसोऽनप्रकृतित्वमवगम्यते; अन्नस्य च ३"ता अन्नमसृजन्त" इत्यम्मयत्वं सिद्धम्, ३"आपोमयः प्राणः" इति चाप्पकृतित्वं प्राणस्यावगम्यते, अतो मनः प्राणे सम्पद्यत इत्यत्र प्राणशब्देन प्राणप्रकृतिभूता अपो निर्दिश्य तासु मनस्सम्पत्तिप्रतिपादने परम्परया स्वकारणे लय इति सम्पत्तिवचनमुपपन्नं भवति-इति ॥ परिहारस्तु ३“अन्नमयं हि सोम्य मनः, आपोमयः प्राणः" इति मनःपाणयोरन्नेनाद्भिश्चाप्यायनमुच्यते; न तत्प्रकृतित्वम् ,आहङ्कारिकत्वान्मनसः, आकाशविकारत्वाच्च प्राणस्य । प्राणशब्देनापां लक्षणा च स्यात्-इति ॥३॥ इति श्रीशारीरकमीमांसाभाष्ये मनोधिकरणम् ॥ २ ॥ वेदान्तसार-तन्मनः प्राण उत्तरात् ।। उत्तरात् १"मनः प्राणे' इति शब्दात् सर्वेन्द्रिययुक्तं मनः प्राणे संयुज्यते ॥ ३ ॥ इति वेदान्तसारे मनोधिकरणम् ॥ २॥ २॥-३. छा. ६-६-५॥--४. छा. ६.२-४ ॥ १. छा. ६.८.६ ॥ *54 For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy