________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमते रामानुजाय नमः
श्रीभगवद्रामानुजविरचिते
श्रीशारीरकमीमांसाभाष्ये ..(चतुर्थाध्याये - द्वितीयः पादः - वागधिकरणम् ॥१॥....
वाङ्गनसि दर्शनाच्छब्दाच्च ।४।२।१॥
इदानीं विदुषो गतिप्रकारं चिन्तयितुमारभते । प्रथमं तावदुत्कान्तिश्चिन्त्यते । तत्रेदमानायते १“अस्य सोम्य पुरुषस्य प्रयतो वासनासि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम्" इति । अत्र १"वाङ्मनसि सम्पद्यते" इति वाचो मनसि सम्पत्तिश्रुतिः किं वाग्वृत्तिमात्रविषया, उत वाग्विषयेति विशये वृत्तिमात्रविषयेति युक्तम् । कुतः? मनसो वाक्प्रकृतित्वाभावात्तत्र वाक्खरूपसम्पत्त्यसम्भवात् । वागादिवृत्तीनां मनोधीनत्वेन वृत्तिसम्पत्तिश्रुतिः कथंचिदुपपद्यत इति ॥
एवं प्राप्तेऽभिधीयते- वामनसि-इति । वाक्स्वरूपमेव मनसि सम्पद्यते । कुतः १ दर्शनात्-दृश्यते हि वागिन्द्रिय उपरतेऽपि मनःप्रवृत्तिः । वृत्तिमात्रसम्पत्यापि तदुपपद्यत इति चेत्-तत्राह-शब्दाचेति। "वामनसि सम्पद्यते"इति वाक्स्वरूपसम्पत्तावेव हि शब्दन वृत्तिमात्रसम्पत्तौ। नहि तदानीं वृत्त्युपरमे वागिन्द्रियं प्रमाणान्तरेणोपलभ्यते येन वृत्तिमात्रमेव सम्पद्यत इत्युच्येत । यदुक्तं मनसो वाक्प्रकृतित्वाभावाद्वाचो मन
१. छा. ६-८-६॥
For Private And Personal Use Only