SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] अनारब्धकाधिकरणम्. तौ ततः पूर्वभाविनोः सुकृतदुष्कृतयोः किमविशेषेण विनाशः, उतानारब्धकार्ययोरेवेति विशये १“सर्वे पाप्मानः प्रयन्ते" इति विद्याफलस्याविशेषश्रवणाद्विद्योत्पत्त्युत्तरकालभाविन्याश्च शरीरस्थितेः कुलालचऋभ्रमणादिवत्संस्कारवशादप्युपपत्तेरविशेषेण ___- (सिद्धान्तः).-..इति प्राप्ते उच्यते-अनारब्धकार्ये एव तु पूर्वे-इति । विद्योत्पत्तेः पूर्वे मुक्तदुष्कृते अनारब्धकार्ये-अप्रवृत्तफले एव विद्यया विनश्यतः; कुतः तदवधेः-२"तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्य" इति शरीरपातविलम्बावधिश्रुतेः । न च पुण्यापुण्यकर्मजन्यभगवत्सीत्यप्रीतिव्यतिरेकेण शरीरस्थितिहेतुभूतसंस्कारसद्भावे प्रमाणमस्ति ॥१५॥ __ इति श्रीशारीरकमीमांसाभाष्ये अनारब्धकार्याधिकरणम् ॥ ९ ॥ वेदान्तसारे-अनारब्धकार्ये एव तु पूर्वे तदवधेः । विद्याधिगतेः पूर्वकृते पुण्यपापे फलदानायाप्रवृत्ते एव विनश्यतः; २"तस्य तावदेवचिरम्' इति शरीरपातावधिश्रुतेः ॥१५॥ इति वेदान्तसारे अनारब्धकार्याधिकरणम् ॥ ९ ॥ वेदान्तदीपे-अनारब्धकार्ये एव तु पूर्वे तदवधेः। विद्योत्पतेः पूर्वकृतयोः पुण्यपापयोरविशेषेण विनाशः, उतानारब्धकार्ययोरेवेति संशयः । १"सर्वे पाप्मानः प्रदूयन्ते" इति विशेषाभावादविशेषेणेति पूर्वः पक्षः। राधान्तस्तु–२"तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये" इत्युत्पन्न विद्यस्यापि शरीरमोक्षावधित्वश्रुतेः, सर्वविनाशे शरीरस्थित्यनुपपत्तेश्चानारब्धकार्ययोरेव विनाशः । सूत्रं च व्याख्यातम् ॥ १५ ॥ इति वेदान्तदीपे अनारब्धकार्याधिकरणम् ॥ ९॥ १. छा. ५-२४-३ ॥ २. छा. ६-१४-२॥ __*53 For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy