SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १. इतराधिकरणम्. ४१५ उत्तरोत्तरातिशयभागिन्याः विद्यायाः दुश्चरितविरतिनिष्पाद्यत्वावगमात्॥ इति श्रीशारीरकमीमांसाभाष्ये तदधिगमाधिकरणम् ॥ ७ ॥ वेदान्तसारे-तदधिगम उत्तरपूर्वाधयोर श्लेषविनाशौ तद्यपदेशात्॥ उपासने प्रारब्धे तत्सामर्थ्यादेव पूर्वकृताधनाशः, उत्तराधाश्लेषश्च भवति, १ "एवं हास्य सर्वे पाप्मानः प्रदूयन्ते" २ "एवमेवंविदि पापं कर्म न श्लिन्यते" इति श्रुतेः ॥१३॥ इति वेदान्तसारे तदधिगमाधिकरणम् ॥ ७ ॥ वेदान्तदीपे-तदधिगम उत्तरपूर्वाधयोर श्लेषविनाशौ तव्यपदेशात्।। विदुष उत्तरपूर्वाधयोरश्लेषविनाशौ किं सम्भवतः, उत नेति संशयः। ३"ना. भुक्तं क्षीयते कर्म कल्पकोटिशतैरपि" इति भोगादेव कर्मक्षयश्रवणादश्लेषवि. नाशश्रुतिः कथञ्चिद्विद्यास्तुत्यर्थतया नेयोति पूर्वः पक्षः । राद्धान्तस्तु-द्वयोश्शास्त्रयोनिविषयत्वेन विरोधाभावात्सम्भवत एव ; कर्मणां फलजननसामर्थ्य द्रढयति ३ "नाभुक्तं क्षीयते" इति ; २"एवमेवंविदि पापं कर्म न लिप्यते" १" एवं हास्य सर्वे पाप्मानः प्रदूयन्ते" इति च श्रुतिर्विद्यायास्तत्सामर्थ्यनिवारणशक्तिविषयेऽति ; यथा अप्तेजसोश्शीतजननतनिवारणशक्तिविषये प्रमाणे विरुध्येते । इति सूत्रमपि व्याख्यातम् ॥ १३॥ इति वेदान्तदीपे तदधिगमाधिकरणम् ॥ ७ ॥ ... (श्रीशारीरकमीमांसाभाष्ये इतराधिकरणम् ॥ ८॥).. इतरस्याप्येवमसंश्लेषः पाते तु।४।१।१४॥ उत्तरपूर्वाधयोर्विद्यया अश्लेषविनाशावुक्तौ ; इतरस्य-पुण्यस्यापि, एवम्-उक्तेन न्यायेनाश्लेषविनाशौ विद्यया स्याताम् , विद्याफलविरोधित्वसामान्यायपदेशाच्च । भवति च व्यपदेशः-उभे सुकृतदुष्कृते निर्दि१. छा. ५-२४-३ ॥-२. छा. ४-१४-३ ॥-३. ब्रह्मवैवर्ते. प्रकृतिखण्डे. २६-७० ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy