________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
आसीनाधिकरणम् . कालश्च, स एवोपासनस्य देशः कालश्च । १"समे शुचौ शर्करावह्निवालुकाविवर्जिते" इति वचनमेकाग्रतेकान्तदेशमाह ; न तु देशं नियच्छति, १"मनोऽनुकूले" इति वाक्यशेषात् ॥ ११ ॥
इति श्रीशारीरकमीमांसाभाष्ये आसीनाधिकरणम् ॥ ५ ॥
वेदान्तसारे-आसीनस्सम्भवात् ॥ आसीन उपासनं कुर्यात् , तस्यैवैकाप्रपसम्भवात् ॥ ७ ॥ ___ध्यानाच्च।। २"निदिध्यासितव्यः" इत्युपासनस्य ध्यानरूपत्वाचासीनः॥
अचलत्वं चापेक्ष्य ॥ पृथिव्यादेरचलत्वं चापेक्ष्य ३ 'ध्यायतीव पृथिवी" इति प्रयोगात् मनसो निश्चलत्वमासीनस्यैव ॥ ९॥
स्मरन्ति च ॥ ४" उपविश्याऽसने युञ्जयात्" इत्यादिना ॥१०॥
यत्रैकाग्रता तत्राविशेषात् ॥ यत्रैकाग्रता, तत्र देशे तत्र काले उपासीतेति देशकालविशेषाश्रवणात् ॥११॥
इति वेदान्तसारे आसीनाधिकरणम् ।। ५ ॥
वेदान्तदीपे-आसीनस्सम्भवात्।। किमिदं ब्रह्मोपासनमासीनः कुर्यात् , उतासीनश्शयानस्तिष्ठन्गच्छन्वेत्यनियमः इति संशयः । विशेषाश्रवणादनियमः इति पूर्वः पक्षः।राद्धान्तस्तु-आसीनस्यैवैकाग्रतासम्भवात्, एकाग्रतामूलत्वाञ्चोपासनस्य, आसीनः कुर्यात् । सूत्रमपि व्याख्यातम् ॥ ७॥
ध्यानाञ्च ॥ २"निदिध्यासितव्यः' इत्युपासनस्य ध्यानरूपत्वाश्चैकाग्रचित्तताऽवश्यम्भाविनी। ध्यानं हि विजातीयप्रत्ययान्तराव्यवहितं तैलधारावदविच्छिन्नस्मृतिसन्ततिरूपम् ॥ ८॥
अचलत्वं चापेक्ष्य ॥ निश्चलत्वं चापेक्ष्य ध्यानवाचोयुक्तिः पृथिव्यादिषु दृश्यते ३" ध्यायतीव पृथिवी, ध्यायतीवान्तरिक्षं ध्यायतीव द्यौः" इत्यादिका । अतो ध्यायतः पृथिव्यादिवदचलत्वमासीनस्यैव सम्भवति ॥९॥ स्मरन्ति च ॥ स्मरन्तिचासीनस्यैव ध्यानम् ४ " उपविश्याऽसने युञ्जयाद्यो१॥-२. वृ. ६-५-६ ॥–३. छा. ७-६-१ ॥-४. गी. ६-१२ ॥
For Private And Personal Use Only