SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.१.] आसीनाधिकरणम्. ४०९ धारणे ; क्रत्वङ्गे उद्गीथादावादित्यादिदृष्टय एव कार्याः; कुतः? उपपत्तेः-आदित्यादीनामेवोत्कृष्टत्वोपपत्ते, आदित्यादिदेवताराधनद्वारेण हि कर्मणामपि फलसाधनत्वम् । अतस्तद्दष्टिरुद्गीथायङ्गे ॥६॥ इति श्रीशारीरकमीमांसाभाष्ये आदित्यादिमत्यधिकरणम् ॥ ४ ॥ वेदान्तसारे-आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ १'य एवासौ तपति तमुद्गीथमुपासीत" इत्यादावप्यादित्यादेरेवोत्कृष्टत्वात् उद्गीथादौ तदृष्टयः कार्याः॥६॥ इति वेदान्तसारे आदित्यादिमत्यधिकरणम् ॥ ४ ॥ ---- वेदान्तदीपे-आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ १“य एवासौ त. पति तमुद्गीथमुपासीत' इत्यादिषु कर्माङ्गाश्रयोपासनेषु किमुद्गीथादावादित्यादिदृष्टिः कार्या, उतादित्यादावुद्गीथादिदृष्टिरिति संशयः । कर्मणः फलसाध. नतयोत्कर्षात् आदित्यादेर्देवतात्वेन तद्गुणत्वाचादित्यादावुद्गीथादिदृष्टिः कार्येति पूर्वः पक्षः।राद्धान्तस्तु-कर्मणोऽपि फलसाधनत्वमादित्यादिदेवताराधनद्वारेणेति आदिल्यादेरेवोत्कर्षोपपत्तेः आदित्यादिमतय एव कर्माङ्गोद्रीथादौ कार्याः। सूत्रं च व्याख्यातम् ॥ ६॥ इति वेदान्तदीपे आदित्यादिमत्यधिकरणम् ॥ ४ ॥ (श्रीशारीरकमीमांसाभाष्ये आसीनाधिकरणम् ॥ ५॥)--- आसीनस्सम्भवात् । ४।१।७॥ मोक्षसाधनतया वेदान्तशास्त्रैर्विहितं ज्ञानं ध्यानोपासनादिशब्दवाच्यमसकृदावृत्तं सन्ततस्मृतिरूपमित्युक्तम् । तदनुतिष्ठन्नासनिश्शयानस्तिष्ठन् गच्छंश्च विशेषाभावादनियमेनानुतिष्ठेत्१. छा. १-३-१॥ *52 For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy