SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा...] सहकार्वन्तरविभ्यधिकरणम् . ३९५ सर्वेषणाविनिर्मुक्तस्य भिक्षाचरणपूर्वकमौनोपदेशः सर्वेषामाश्रमधर्माणां प्रदर्शनार्थः कुतः ? एवं विधमौनोपदेशवदितरेषामाश्रमिणामपि "त्रयो धर्मस्कन्धाः" इत्यारभ्य १"ब्रह्मसंस्थोऽमृतत्वमेति" इति ब्रह्मप्राप्त्युपदेशात् । उपपादितश्च पूर्वमेव ब्रह्मसंस्थशब्दः सर्वाश्रमिसाधारण इति । अतस्मुष्ठक्तं-यज्ञादिसर्वाश्रमधर्मवन्मौनतृतीयः पाण्डित्यादिविद्यासहकारित्वेन विधीयते-इति॥४८॥ ' इति श्रीशारीरकमीमांसाभाष्ये सहकार्यन्तरविध्यधिकरणम् ॥ १२ ॥ वेदान्तसारे-सहकार्यन्तरविधिः पक्षण तृतीयं तद्तो विध्यादिवत् ॥ २"तस्माब्राह्मणः पाण्डित्यं निर्विद्य' इत्यारभ्य २ "अथ मुनिः" इ. स्यत्र विद्यावतो यादिवत् बाल्यपाण्डित्ययोस्तृतीयं सहकार्यन्तरं मौनं विधीयते, पक्षेण प्रकृष्टमननशीले मुनिशब्दप्रयोगात् विद्याभ्यासरूपमननमिदमप्राप्तमेव ॥४६॥ कृत्नभावात्तु गृहिणोपसंहारः ॥ कृत्स्नेष्वाश्रमिषु विद्यासद्भावात् छान्दोग्ये ३"अभिसमावृस्य कुटुम्बे" इत्यारभ्य ३"स स्वल्वेवं वर्तयन्याबदा. युषम्" इति गृहिणोपसंहारस्सर्वेषां प्रदर्शनार्थः । तुशब्दो हि गृहिण एवेति शङ्काव्यावृत्त्यर्थः ॥ ४७॥ मौनवदितरेषामप्युपदेशात् ॥ २"अथ मुनिः" इत्यत्रापि २"अथ भिक्षाचर्यचरति" इति पारिवाज्येनोपसंहारः प्रदर्शनार्थः, मौनभिक्षाचर्यव. दितराश्रमधर्माणां यशोदीनामप्युपदेशात् ॥ ४८॥ इति वेदान्तसारे सहकार्यन्तरविध्यधिकरणम् ॥ १२ ॥ वेदान्तदीपे-सहकार्यन्तरविधिः पक्षण तृतीयं तद्वतो विध्यादिवत् ॥ २"तस्माद्राह्मणः पाण्डित्यनिर्विद्य बाल्येन तिष्ठासेत् बाल्यं च पा. ण्डित्यं च निविद्याथ मनिः" इस्पत्र मौनं विद्याङ्गतया विधीयते, उतान्द्यत इति संशयः । मौनस्य मननरूपत्वात् ४"श्रोतव्यो मन्तव्यः" इति च प्राप्तत्वे१. डा. २-२३-१॥-२. बृ. ५-५-१॥-३. छा ८-१५-१ ॥-४.. ४.४.५H For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy