SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशारीरकमीमांसाभाग्ये वाजकस्य ; अत एव तेषामनामित्वेनावस्थानाभावाद्विधाधिकारो न सम्भवति । जैमिनेरप्यविगीतोऽयम् ॥ ४०॥ नचाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ आधिकारिकम् अधिकारलक्षणोक्तम् १"अवकीर्णिपशुश्च तद्वत्" इत्येतत्प्रायश्चित्तं नैष्ठिकस्य न सम्भवति ; कुतः ? पतनानुमानान्नैष्ठिकस्य तदयोगात् । तस्य हि पतनं स्मर्यते प्रायश्चित्ताभाववचनेन २ 'आरूढो नैष्ठिकं धर्म यस्तु प्रच्यवते द्विजः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा" इति । अत उपकुर्वाणब्रह्मचारिवि. षयमाधिकारिकम् ॥४१॥ उपपूर्वमपीत्येके भावमशनवत्तदुक्तम् ॥ एके प्रायश्चित्तभावमपि मन्यन्ते, यत उपपूर्वम् उपपातकमिदम् ; अशनवत्-मध्वशनादिनिषेधतत्प्रायश्चित्तवद्भवतीत्यर्थः । अत उपकुर्वाणस्य ब्रह्मचारिणः उक्तमाधिकारिकमस्यापि भवतीति । तदुक्तं स्मृतिकारैः ३"उत्तरेषां चैतदविरोधि" इति । उपकुर्वाणे ब्रह्मचारिण्युक्तो धर्मः उत्तरेषा चाश्रमिणां स्वाश्रमाविरोधी भवत्येवेत्यर्थः॥४२॥ बहिस्तूभयधापि स्मृतेराचाराच ॥ उभयधापि उपपातकत्वे महापातकत्वेऽपि नैष्ठिकात्प्रच्युतो बहिर्भूतः कर्माधिकारात् , २"प्रायश्चित्तं न पश्यामि' इति स्मृतेः, आचाराश्च ; वर्जयन्तिोनं शिष्टा विद्योपदेशादौ। यद्यपि कल्मषनिबर्हणाय कैश्चित्प्रायश्चित्तमुच्यते, तथापि कर्माधिकारापादिनी शुद्धिस्तेषां न सम्भवतीत्यभिप्रायः ॥४३॥ इति वेदान्तदीपे तद्भताधिकरणम् ॥ १० ॥ ---(श्रीशारीरकमीमांसाभाष्ये खाम्यधिकरणम् ॥ ११ ॥).-.. स्वामिनः फलश्रुतेरित्यात्रेयः ।३।४॥४४॥ काङ्गाश्रयाण्युद्गीथायुपासनानि किं यजमानकरीकाणि, उतत्विकर्तृकाणीति चिन्तायां-यजमानकर्तृकाणीत्यानेयो मन्यते ; कुतः फलश्रुतेः-वेदान्तविहितेषु दहरायुपासनेषु फलोपासनयोरेकाश्रयत्वदर्शना १॥-२. आमेय. १६-५-२३॥-३. गौत, १-प्र. ३-अ. ४-सू॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy