SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८३ पा. ४.] विहितत्वाधिकरणम् . विद्योत्पद्यते । अतस्त एवोभयन यज्ञादयः॥ ३५ ॥ इति श्रीशारीरकमीमांसाभाष्ये विहितत्वाधिकरणम् ॥ ८ ॥ वेदान्तसारे-विहितत्वाचाश्रमकापि ॥ यज्ञादिकर्म १"यावजीवमग्निहोत्रम्" इत्यादिना विहितत्वात् विद्यारहितकेवलाश्रमिणामप्यनुष्ठेयम् ॥ सहकारित्वेन च ॥ २"तमेतं वेदानुवचनेन" इत्यादिश्रुतेर्विद्याक तया विधेर्विद्यासहकारित्वेन विदुषा चानुष्ठेयम् ॥ ३३॥ सर्वथापि त एवोभयलिङ्गात् ॥ उभयत्र विनियोगेऽपि यज्ञादयस्त एव, उभयत्र प्रत्यभिज्ञानाख्याल्लिङ्गात् । कर्मस्वरूपैक्येऽपि विनियोगपृथक्त्वेन नविरोधः॥३४॥ अनभिभवं च दर्शयति ॥ ३ "धर्मेण पापमपनुदति" इति विद्योत्पत्तिप्रतिबन्धकपापनिवर्तनेन विद्याया अनभिभवं कर्मानुष्ठानकार्यश्च दर्शयति॥ इति वेदान्तसारे विहितत्वाधिकरणम् ॥ ८॥ वेदान्तदीपे-विहितत्वाच्चाश्रमकापि ॥ किं यज्ञादयो विद्याङ्गभूताः केवलाश्रमस्याप्यङ्गभूताः, उत नेति संशयः। केवलाश्रमस्याप्यङ्गत्वे नित्यानित्यसंयोगरूपविरोधः प्रसज्यत इति नाङ्गभूताः केवलाश्रमस्येति पूर्वः पक्षः । रा. खान्तस्तु-यदैकेनैव विनियोगेनोभयाङ्गत्वमिष्यते; तदा नित्यानित्यसंयोगविरोधः । इह तु १"यावजीवमग्निहोत्रं जुहुयात्' २"तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यझेन दानेन" इति विनियोगपृथक्त्वेन विरोधः परि, हियते ; यथाऽग्निहोत्रादीनामेव कर्मणाम् । जीवनाधिकारकामनाधिकारयोरिवाधिकारभेदस्यास्फुटत्वात्तत्स्फुटीकरणाय पुनरिह चिन्स्यते । सूत्रार्थस्तु१"यावजीवमग्निहोत्रं जुहुयात्" इत्यादिना केवलगृहस्थाश्रमिणो जीवननिमिततया विहितत्वादेव यज्ञादि केवलाश्रमकर्मापि ॥ ३२॥ सहकारित्वेन च ॥ २"तमेतं वेदानुवचनेन" इत्यादिना विद्यासाधनत्वेन विहितत्वाश्च विद्यासहकारित्वेन चानुष्ठेयं यज्ञादिकर्म । विनियोगपृथक्त्वेन विरोधः परिहियत इत्यभिप्रायः ॥ ३३ ॥ १.आपस्तम्वीत. ३-१४-८॥ बट्टच इति शावरः॥-२, ६.६-४-२२॥---३.ते.ना.५०-अनु॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy