SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] विलक्षणत्वाधिकरणम् पुरुषबुद्धिमूलतकावलम्बनस्य तथैव देशान्तरकालान्तरेषु त्वदधिककुतर्ककुशलपुरुषोत्प्रेक्षिततर्कदृष्यत्वसम्भावनया तर्काप्रतिष्ठानदोषादनिर्मोक्षो दुर्वारः । अतोऽतीन्द्रियेऽर्थे शास्त्रमेव प्रमाणम् । तदुपबृंहणायैव तर्क उपादेयः । तथाचाह १“आर्ष धर्मोपदेशं च वेदशास्त्राविरोधिना। यस्तकेंणानुसन्धत्ते स धर्म बेद नेतरः" इति । वेदाख्यशास्त्राविरोधिनेत्यर्थः। अतो वेदविरोधित्वेन वेदार्थविशदीकरणरूपवेदोपबृंहणतर्कोपादानाय साङ्ख्यस्मृतिर्नादरणीया ॥१२॥ इति श्रीशारीरकमीमांसाभाष्ये विलक्षणत्वाधिकरणम् ॥ ३ ॥ वेदान्तसारे-न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ विकारास्पदत्वेनाशत्वेनापुरुषार्थाश्रयत्वेन च जगतो ब्रह्मविलक्षणत्वात्तत्कार्यत्वन सम्भवति; विलक्षणत्वञ्च शब्दाचावगम्यते,२"विज्ञानञ्चाविज्ञानश्च" इत्यादेः॥ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ३"तं पृथिव्यब्रवीत्" ४"आपो वा अकामयन्त" इत्यादौ शानकार्यव्यपदेशः तत्तदभिमानिदेवताविषय इति, ५"हन्ताहमिमास्तिस्रो देवताः" इति देवताशब्देन विशेषितत्वात् , ६"अग्निर्वाग्भूत्वा मुखं प्राविशत्" इत्यादिना तत्तदचिवस्त्वभिमानित्वेन देवतानुगतेश्वावगम्यते ॥५॥ - दृश्यते तु॥ विलक्षणयोरपि कार्यकारणभावस्सम्भवति,माक्षिकादिभ्यः क्रिम्याद्युत्पत्तिदर्शनात् ॥६॥ असदितिचेन प्रतिषेधमात्रत्वात् ॥ एवन्तर्हि कार्य कारणे असदितिचेत्–न, सालक्षण्यनियमप्रतिषेधमात्रत्वात् , पूर्वोक्त कार्यकारणयोर्वस्त्वैक्यन्न त्यक्तम् ॥७॥ ___ अपीतौ तद्वत्मसङ्गादसमञ्जसम् ॥ जगतो ब्रह्मकारणत्वेन वस्त्वैक्येन तस्मिन्नपीत्यादौ जगत इव ब्रह्मणोऽपि विकारित्वाद्यनिष्टप्रसगावेदान्तवाक्यं १. मनु. १२-१०६ ॥ ४. अष्टक-३. प्र-१. अनु-५ ॥ २. ते. आन. ६ ॥ ५. छा. ६-३-२॥ ३. यजुषि.५-काण्ड.५-प्रश्न.२ -अनु.१०-वा. ६. ऐतरेय. २-४॥ *3 For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy