SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२४ भीशारीरकमीमांसामाग्वे [म. ३. त्यर्थः। तस्य उद्रीयोपासनस्यानियमः; कुतः तद्दष्टेः- "तेनोभौ कुरुतः" इत्यनियमष्टेः पृथग्भूतं ह्यस्य फलम्। तथाप्रतिबन्धरूपम् । वीर्यवत्तरत्वं नाम-प्रबलकर्मान्तरफलेनैतस्य कर्मणः फलस्याप्रतिबन्धः, अविलम्बितत्वमित्यर्थः॥४१॥ इति वेदान्तदीपे तनिर्धारणानियमाधिकरणम् ॥ १७ ॥ ...( श्रीशारीरकमीमांसाभाष्ये प्रदानाधिकरणम् ॥ १८ ॥)--- प्रदानवदेव तदुक्तम् । ३।३।४२॥ दहरविद्यायां २" तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्याकामान्" इति दहराकाशस्य परमात्मन उपासनमुक्त्वा २"एतांच सत्यान्कामान्" इति गुणानामपि पृथगुपासनं विहितम् । तत्र संशयः-गुणचिन्तनेऽपि तत्तद्गणविशिष्टतया दहरस्यात्मनश्चिन्तनमावर्तनीयम् , उत नेति । दहराकाशस्यैवापहतपाप्मत्वादीनां गुणित्वात्तस्य च सकदेवानुसन्धातुं शक्यत्वाद्गुणार्थ तच्चिन्तनं नावर्तनीयम् (सिद्धान्तः)...इति प्राप्त उच्यते-प्रदानवदेव-इति । प्रदानवदावर्तनीयमेवेत्यर्थः। यद्यपि दहराकाश एक एवापहतपाप्मत्वादिगुणानां गुणी ; स च प्रथम चिन्तितः, तथाऽपि स्वरूपमात्राद्गणविशिष्टाकारस्य भिन्नत्वात् ३"अपहतपाप्मा विजरः"इत्यादिना गुणविशिष्टतया चोपास्यत्वेन विहितत्वात्पू+ स्वरूपेणानुसंहितस्यापहतपाप्मत्वादिविशिष्टतयाऽनुसन्धानार्थमावृत्तिः कर्तव्याः यथा ४"इन्द्राय राज्ञे पुरोडाशमेकादशकपालं निर्वपेत्" ४"इन्द्रायाधिराजाय" "इन्द्राय स्वराजे"इतीन्द्रस्यैव राजत्वादिगुणविशिष्टत्वेऽपि तत्तद्गणसम्बन्ध्याकारस्य भिन्नत्वात्पदानावृत्तिः क्रियते तदुक्तं साकर्षणे ५"नाना वा देवता पृथक्त्वात्" इति ॥ ४२ ॥ इति श्रीशारीरकमीमांसाभाष्ये प्रदानाधिकरणम् ॥ १८ ॥ -४. यजु-२. १. छा. १-१-१० -२. छा. ८-१-६॥-३. छा. ८-१-५ कां. ३-प्र. ६-अनु ।।-५. संकर्षणकाण्डे ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy